________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४०
मेधातिथिभाष्यसमलंकृता ।
[ द्वितीयः
उपनीयोपनयनं कृत्वा यो वेदमध्यापयति ग्राहयति स आचार्यः । ग्रहणं चात्राध्येत्रन्तरनिरपेक्षं वाक्यानुपूर्वीस्मरणम् । कल्पशब्दः सर्वाङ्गप्रदर्शनार्थः । रहस्यमुपनिषदः । यद्यपि तेऽपि वेदशब्देनैव गृहीतास्तथापि द्वितीयस्तेषां व्यपदेशोऽस्ति । वेदान्ता इत्यन्तशब्दं समीपवचनं मन्यमानो नैते वेदा इति मन्येत तदा शङ्कानिवृत्त्यर्थं रहस्यग्रहणम् ।
_ अन्ये तु रहस्यं वेदार्थ वर्णयन्ति । तेन न स्वरूपग्रहणमात्रादाचार्यकनिष्पत्तिः । अपि तु तद्व्याख्यानसहितात् । तथा चाभिधानकोशेऽभिहितम् “विवृणोति च मन्त्रार्थानाचार्यः सोऽभिधीयते” इति । मन्त्रग्रहणं वेदवाक्योपलक्षणार्थम् । अस्मिंश्च व्याख्यानेऽ
र्थावबोधोऽप्याचार्यकरणविधिप्रयुक्तः स्यान्न केवलं संपाठमात्रम् । ततश्च सर्वेण सर्वस्वा१० ध्यायविधिरनुष्ठापकः स्यात् । अस्तु परप्रयुक्तेऽप्यनुष्ठाने स्वाध्यायविधेब्रह्मचारिणः स्वार्थ
सिद्धिः यदा, तर्हि काम्यत्वादाचार्यकरणविधेराचार्यो न प्रवर्तते तदा स्वाध्यायविध्यर्थानुष्ठानं न प्राप्नोति ; ततश्च न नित्यस्वाध्यायविधिः स्यात् । न च रहस्यशब्दो वेदार्थवचनतया प्रसिद्धस्तस्मात्पूर्वमेव रहस्यग्रहणस्य प्रयोजनं प्राधान्याद्वा पृथगुपादानम् । यत्तु
'विवृणोति च मन्त्रार्थान् "इत्यस्मृतिरेवैषा । मन्त्रशब्दस्योपलक्षणत्वे प्रमाणाभावात्तस्मात्पाठा१५ भिप्रायमस्य विधेरप्रयोजकत्वम् । अतो वेदस्वरूपग्रहणे माणवकस्य जाते आचार्यकरण
विधिनिवृत्तिः ॥ १४० ॥
एकदेशं तु वेदस्य वेदाङ्गान्यपि वा पुनः॥ योऽध्यापयति वृत्त्यर्थमुपाध्यायः स उच्यते ॥ १४१ ॥
वैदस्यैकदेशो मन्त्रः ब्राह्मणं वा । वेदवर्जितानि वा केवलान्यङ्गान्येवं योऽध्या२० पयति तथा सर्वमपि वेदम् । वृत्त्यर्थं जीविकार्थम् । नाचार्यकरणविधिवशेन स उपा
ध्यायो नाचार्यः । अन्येनोपनीतं यः कृत्स्नमपि वेदमध्यापयति नासावाचार्यः । उपनीयापि यः कृत्स्नं वेदं नाध्यापयति सोऽपि नाचार्यः । यद्येवमेकदेशग्रहणमुपाध्यायलक्षणे कृतमाचार्यलक्षणे उपनयनग्रहणं यस्तीनुपनेता कृत्स्नवेदाध्यापकश्च तस्य किं लक्षणं
नासावाचार्यों नाप्युपाध्यायः । न चापि नामान्तरं तस्य श्रुतम् । उच्यते । अल्पं वा २५ बहु वा: यस्य श्रुतस्येत्यनेन गुरुरसावाचार्यान्न्यून उपाध्यायादप्यधिकः । अपि पुनः
शब्दौ पादपूरणार्थों ॥ १४ १ ॥
१ इक्ष-स्वाध्यायविधि । २ 5 क्ष-एवं । ३ लक्षणा । ४ ड क्ष-लक्षणेन ।
For Private And Personal Use Only