________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
मनुस्मृतिः। चक्रिणो दशमीस्थस्य रोगिणो भारिणः स्त्रियाः॥ . स्नातकस्य च राज्ञश्च पन्था देयो वरस्य च ॥ १३८ ॥
अयमन्यः पूजाप्रकारः प्रासङ्गिक उच्यते । चक्री रथिको गन्व्यादियानाधिरूढस्तस्य पन्था देयः । येन भूमिभागेन प्रामादि देशान्तरं गम्यते स पद्धतिः पन्था उच्यते । तत्र यदि पृष्ठतः संमुखतो वा रथिक आगच्छेत्तदा तद्गमनोपरोधिनः पथिप्रदेशा- ५ त्पदातिरपक्रामेत् । दशमीस्थोऽत्यन्तपरिणतवयाः । रोगी व्याधिनाऽत्यन्तपीडितः । भारी गृहीतव्रीह्यादिगुरुद्रव्यः सोऽपि यथोपसर्तुमशक्तोऽनुग्राह्यः । स्त्रिया अनपेक्ष्यजातिगुणभर्तृसंबन्धास्त्रीत्वमात्रेणैव । राजा च विषयेश्वरोऽत्राभिप्रेतो न क्षत्रिय एव । तथा चोत्तरत्र पार्थिवग्रहणेन निगमने पृथिव्या ईश्वरः पार्थिवः ।
ननु चोपक्रमे राजशब्दश्रवणाद्वाक्यान्तरगतः पार्थिवशब्दस्तत्पर एव युक्तः । १० राजशब्दो हि क्षत्रियजातिवचनो विज्ञातः स तावदनुपजातविरोधित्वादुपक्रमगतो मुख्यार्थो ग्राह्यः । बलादिवाक्ये तु तत्सापेक्षक्षत्रियजातिविहितेन धर्मेण पृथिवीपालनाख्येन पार्थिवशब्दस्य प्रयोगसंभवेन जात्यन्तरविषयत्वमयुक्तम् । अत्रोच्यते । मान्यताऽत्र श्रुता स्नातको नृपमानभागीति । तत्र क्षत्रियजातीयमात्रान्मान्यत्वं स्नातकस्य सिद्धमेव ब्राह्मणं दशवर्षमिति । तत्र हि भूमिपशब्दः क्षत्रियजातिमात्रोपलक्षणार्थ इत्युक्तम् । उपलक्षणत्वाच्च १५ राजजातेः क्षत्रियस्यापि प्रजेश्वरस्यायं धर्मो विज्ञायते । वरो विवाहाय प्रवृत्तः । एतेषां पन्था देयः। त्यागमात्रं च ददात्यर्थः । त्यागश्च पथोऽपसरणम् । अत एव चतुर्थी न कृता ॥ १३८ ॥
तेषां तु समवेतानां मान्यौ स्नातकपार्थिवौ ॥ राजस्नातकयोश्चैव स्नातको नृपमानभाक् ॥ १३९ ॥
२० ... तेषां तु समवेतानामेकत्र संनिपतितानां मान्यौ स्नातकपार्थिवौ । प्रकृतेन पथोदानेन नृपमानभाक् नृपस्य सकाशान्मानं भजते लभते । षष्ठी निर्धारणे (व्या. सू. २।३।४१)। चक्र्यादीनां त्वन्योन्यं विकल्पः स च शक्त्यपेक्षः ॥ १३९ ॥ .... उपनीय तु यः शिष्यं वेदमध्यापयेद्विजः ॥ . सकल्पं सरहस्यं च तमाचार्य प्रचक्षते ॥ १४० ॥ ... आचार्यादिशब्दानामेवार्थनिरूपणार्थमिदमारभ्यते । सोपचारो हि लोके एषां प्रयोगो न च शब्दार्थसंबन्धस्य स्मर्तृभिराचार्यपाणिनिप्रभृतिभिरेतन्निरूपितम् । इयं चाचार्यपदार्थस्मृतिर्व्यवहारमूला, न वेदमूला, पाणिन्यादिस्मृतिवत् । न ह्यत्र किंचित्कर्तव्यमुपदिश्यते । अस्य शब्दस्यायमर्थ इति सिद्धरूपोऽयमर्थो न साध्यरूपः ।
१ अग्रे श्लोकः १३९ ।
१३९॥
For Private And Personal Use Only