SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३८ मेधातिथिभाष्यसमलंकृता । [ द्वितीयः गरीय इति कथं प्रकर्षप्रत्ययो यावता नैव पूर्वस्य गुरुत्वम् । यदि हि द्वे रूपिणी तत्रोत्तरीयस्य गरीयस्त्वमस्ति तर्हि पूर्वापेक्षया वित्तस्य नास्तीति चेत्समुदाये सामान्येन गुरुत्वेऽपेक्षिते अपरस्य प्रकर्षविवक्षायां युज्यत ईयसुन् । मानः पूजा तस्य स्थानं कारणम् । —मानस्थानानीति ' वा पाठेऽन्तर्भूतभावार्थो द्रष्टव्यः। ' मान्यत्वस्थानानि ' मान्यत्वकारणानि ॥ १३६ ॥ एकैकगुणसंबन्धे परस्य ज्यायस्त्वमुक्तम् । यत्रेदानी द्वौ पूर्वावेकस्य भवतोऽअरस्यैकः पर इति तत्र कथमित्यत आह । पश्चानां त्रिषु वर्णेषु भूयांसि गुणवन्ति च ॥ यत्र स्युः सोऽत्र मानाईः शूद्रोऽपि दशमीं गतः ।। १३७ ॥ १० पञ्चानामेतेषां मान्यस्थानानां यत्र भूयांसि बहून्यसर्वाणि स मान्यः । तत्र परत्व माहर्तव्यम् । एकस्य वित्तबन्धू द्वे । अन्यो वृद्धवयाः । तत्र पूर्वे बाधके । सत्यपि बहुत्वे यदि न श्रेष्ठानि भवन्ति एकं चैकस्यात्युत्कृष्टं तदा साम्यं न पुनः परवाधकत्वं गरीय एकापेक्षया चरितार्थत्वात् । यदि तु भूयांसि गुणवन्त्यत्युत्कृष्टानि तदा साम्येऽपि संख्यया परेषां, पूर्वाणि परैश्च समसंख्यानि, तदा न पूर्वतरतया बाध्यबाधकभावः । किं तर्हि सामान्यमेव । ननु च यत्र गुणवन्ति स्युः सोऽत्र मानार्ह इत्यभिधानेन समसंख्यस्यापि पूर्वयं बाधकत्वमेव युक्तम् । नैवं तुल्यत्वे गुणानामेतस्य चरितार्थत्वात् यथैकोऽपि विद्यावानापरोऽपि तयोर्यस्य गुणवती प्रकृष्टा विद्या स प्रशस्यते । एवं सर्वत्र त्रिषु वर्णेषु ब्राह्मणक्षत्रियवैश्येषु यद्येते गुणा भूयांसः प्रकृष्टाश्च क्षत्रियस्यापि भवन्ति तदा हीनगुणेन ब्राह्मणेन जात्युत्कृष्टेनापि क्षत्रियः पूज्यः । एवं क्षत्रियेण वैश्यः । एवं त्रिभिरपि द्विजातिभिः । शूद्रोऽपि दशमीमितः । दशमी अन्त्यावस्थोच्यते । अत्यन्तवार्धकोपलक्षणमेतत् । एवं च वित्तबन्धू शूद्रस्य माने हेतू त्रैवर्णिकान्प्रति दशमीग्रहणात् । कर्मविद्ये तु नैव तस्य संभवतोऽनधिकारात् ।। भूयांसीत्याधिक्यमानं विवक्षितं न बहुत्वसंख्यैव । तेन द्विविषयताऽपि सिद्धा भवति । न ह्ययं संख्यावाच्येव बहुशब्द इत्यत्र प्रमाणमस्ति भूयःशब्दश्चायं न बहुशब्द: २५ आधिक्ये च तत्रतत्र दृष्टः प्रयोगः । " भूयांश्चात्र परिहारो भूयसाऽभ्युदयेन योक्ष्य " इति प्रत्ययार्थबहुत्वमपि न विवक्षितम् । “ जात्याख्यायां" ह्येतद्बहुवचनम् । विवक्षायां हि एकस्य गुणवतो मानहेतुत्वं न स्यात्ततश्च पूोऽवगतिर्बाध्यते । शूद्रोऽपि दशमीमित्यत्र च केवलस्यैव वयसः प्रकर्षे मानहेतुत्वं ब्रुवन्नविवक्षां दर्शयति । समाचारश्चैवमेव ॥ १३७ ॥ फ-पूर्वस्य वा । २ फ-न कर्मविद्ये तु । ३ व्या. सू. ३।२।५८ । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy