________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
मनुस्मृतिः ।
१३७
अथोच्यते । वेदः कृत्स्नोऽधिगन्तव्यः' इति । कृत्स्नवेदविषयोऽयं विधिरवबोधपर्यन्तस्तत्र कृत्स्नस्य वेदस्यावबोधे कर्तव्ये कुतोऽयं प्रतिभागावबोधसंभवः । येनोच्यते । 'योऽग्निहोत्रवाक्यस्यार्थं वेत्ति वाक्यान्तरार्थमविद्वानप्यधिक्रियत ' इति । अत्रोच्यते । एकशाखाध्ययनं तावदवश्यं कर्तव्यम् । तत्र येनैकशाखाऽधीता तस्याश्वार्थोऽवधृतः । सोऽनवधृतशाखान्तरार्थोऽधिक्रियते ।
ननु च सर्वत्रैक एव शास्त्रार्थो यदि नाम पदवर्णानुपूर्वीभेदः शास्त्ररूपत्वं भिन्न पदार्थन्यायव्युत्पत्त्या वाऽवबोधः । न च प्रतिशाखं पदार्था विद्यन्ते नाऽपि न्यायस्तत्र येनैव हतुनैकस्याः शाखाया अर्थोऽवधार्यते शाखान्तरेऽप्यसावस्ति । न व्युत्पत्त्यन्तरमपेक्षते । तत्र ययेका शाखाऽवगता सर्वा एवावगता भवन्ति । सत्यम् । यान्येकस्यामग्निहोत्रादीन्युपदिष्टानि तेषां शाखान्तरेऽप्युपदिश्यमानानामभूद्भेदः किन्तु कस्यांचिच्छाखायां कानिचित्कर्माणि १० नैवोपदिश्यन्ते । यथा बाढचे आश्वलायनके दर्शपूर्णमासौ श्येनादिरेष एवाभिचारकः । अन्ये च सोमयागवाजपेयबृहस्पतिसवादयः । तत्र यत्तच्छाखाधीनमग्निहोत्रज्योतिष्टोमादि तत्राधिक्रियते । शाखान्तरं त्वनधीतमश्रुतकथं तद्विदितानि कर्माण्यतच्छाखाध्यायी वेत्तु । न चैते सोमयागा नित्या येनाननुष्ठानप्रत्यवायभयात्परिज्ञानाय शाखान्तरमन्विष्यते। आधानं तु यद्यपि तत्र न पठितं तत्राप्युद्धराहवनीयमित्याहवनीयस्य विधानम् । लोकात्तदर्थमनवबुध्य- १५ मानः कोऽयमाहवनीयो यस्याधानमिति शाखान्तरमन्विष्यति । ततः शाखान्तरे पठ्यमान. माधानप्रकरणं सर्वं पर्यालोचयति । एवमामावास्येन वा हविषेष्ट्वा पौर्णमासेन वेति श्रुत्वा कीदृशमनयोः कर्मणो रूपमिति तथैव शाखान्तरं गवेषयते । एवमन्यदपि यत्काम्यं नित्यं चानुष्ठेयं तस्य यत्किंचिदङ्गजातं तत्र नाम्नातमाध्वर्यवमौद्गात्रं वा तत्परिज्ञाय तथैव शाखान्तराद्भिद्यते । यत्तु शाखान्तराधीतमनुष्ठेयं तस्य न वेदनसंभवः । अनेकशाखा- २० ध्यायिनस्तु तदर्थपरस्य सर्वमेतत्प्रत्यक्षमिति । अस्तीशी विद्यामन्तरेणापि कर्मानुष्ठानं अथवा ईपयुत्पत्त्याऽपि संभवत्यनुष्ठानं यस्य तु निर्मला विद्या, व्याख्येयानि विद्यास्थानानि, तस्य विद्यामान्यतत्स्थानम् ।
गरीय इति द्वयोर्द्वयोः संप्रधारणेऽयमियसुन्प्रत्ययः । चतुर्दशविद्यास्थानज्ञः पङ्ग्वन्धनिर्धनादिरनधिकृतोऽपि विद्ययैव पूज्यते । तेषां विरोधे बलाबलमाह । गरीयो २५ यद्यदुत्तरम् । एकस्य वित्तमन्यस्य बहुबन्धुता तत्र वित्तवतो बन्धुमान्मान्यः । यस्माच्च यत्परं तत्तस्मात्तरं गुरु । तथा बन्धोर्वयः ततः पूर्वस्मादपि वित्तात्तद्गुरु सिद्धम् । अत उपपन्नं, "श्रुतं तु सर्वेभ्यो गरीयस्तन्मूलत्वाद्धर्मस्येति" गौतमवचनम् (अ.६सू.१९।२०)।
१ ख-विद्यामान्यतः स्थानं । २-" द्विवचनविभज्योपपदे " ( व्या. सू. ५-३-५७)
For Private And Personal Use Only