________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिमाष्यसमलंकृता ।
[द्वितीयः
असावहमिति स्वं नाम निर्दिश्यते । तत्परश्चाहंशब्दोऽभ्यनुज्ञायते । एतच्च प्रत्युत्थायागतानां कर्तव्यम् । अभिवादने भोःशब्दप्रयोगो निषिध्यते । उक्तं च गौतमीये "प्रत्युत्थानमभिवाद्य” इति ॥ १३० ॥
मातृष्वसा मातुलानी श्वश्रूरथ पितृष्वसा ॥ संपूज्या गुरुपत्नीवत्समास्ता गुरुभार्यया ॥ १३१ ॥
एताश्च गुरुपत्नीवत्संपूज्याः प्रत्युत्थानाभिवादनासनदानादिभिः । ' गुरुपत्नीवत्' इत्यनेनैव सिद्धे समास्ता इति वचनमन्यदप्याज्ञादि गुरुपत्नीकार्य कदाचिदनुजानाति । इतरथा प्रकरणात्संपूज्या इत्यभिवादनविषयमेव स्यात् । पलितवयसश्च स्त्रियः स्मयते । कनीयसीनामप्येष एवाभिवादनविधिः ॥ १३१ ॥
भ्रातुर्भार्योपसंग्राह्या सवर्णाऽहन्यहन्यपि ॥ विप्रोष्य तूपसंग्राह्या ज्ञातिसंबन्धियोषितः ॥ १३२ ॥
भ्रातुज्येष्ठस्येति द्रष्टव्यम् । उपसंग्राह्या पदयोरभिवाद्या । सवर्णा समानजातीया । क्षत्रियादिस्त्रीणां तु ज्ञातिसंबन्धिधर्मो भ्रातुर्भार्याणामपि । विप्रोष्य ज्ञाति
संबन्धियोषितः । विप्रोष्य प्रवासात्प्रत्यागतेन । न हि प्रोषितस्योपसंग्रहणसंभवः । १५ ज्ञातयः पितृपक्षाः पितृव्यादयः, सम्बन्धिनो मातृपक्षाः श्वशुरादयश्च, तेषां ज्येष्ठानां याः स्त्रियः पूजारूपत्वादुपसंग्रहणस्य । न कनीयांसः पूजामर्हन्ति ॥ १३२ ॥
पितुर्भगिन्यां मातुश्च ज्यायस्यां च स्वसर्यपि ॥ मातृवद्वृत्तिमातिष्ठेन्माता ताभ्यो गरीयसी ॥ १३३ ॥
पितुश्च या भगिनी मातुश्च या भगिनी तस्यां, स्वसरि चात्मीयायां ज्येष्ठायां२० भगिन्यां मातृववृत्तिरतिदिश्यते ।
ननु च मातृप्वसुः पितृष्वसुश्चायमुक्त (श्लो.१३ १) एव धर्मो “मातृष्वसा मातुलानी" इत्यत्र । अथोच्यते । तत्र गुरुपत्नीवदित्युक्तम् । इह तु मातृवदृत्तिरित्युच्यत इति। नैष भेदः । तुल्या हि गुरुपन्त्यां मातरि च वृत्तिः । केचिदाहुः माता ताभ्यो गरीयसीत्येतद्वक्त
मनूद्यते भगिन्योः पितुर्मातुश्च गरीयस्त्वम् । यदा माताऽऽज्ञां ददाति स्वस्रादयश्च तदा २५ मातुराज्ञा क्रियते न तासाम् । न चैतद्वाच्यमेतदपि सिद्धं “माता गौरवेणातिरिच्यत" इति।
अर्थवादत्वात्तस्य ।
१ इ-क्ष-श्वश्वादयश्च ।
For Private And Personal Use Only