________________
Shri Mahavir Jain Aradhana Kendra
अध्यायः ]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनुस्मृतिः ।
अवाच्यो दीक्षितो नाम्ना यवीयानपि यो भवेत् ॥ भो भवत्पूर्वकं त्वेनमभिभाषेत धर्मवित् ॥
१२८ ॥
५
प्रत्यभिवादनकाल अन्यत्र च दीक्षितो ज्योतिष्टोमादिषु दीक्षणीयातः प्रभृत्या अवभृथान्नाम्ना न वाच्यस्तस्य यन्नामधेयं तन्नोच्चारयितव्यम् । यवीयान्कनीयानचिरकालजातः । अपिशब्दात् ज्येष्ठस्यादीक्षितस्यापि नामग्रहणनिषेधोऽनुमीयते । तथा च गौतमः (अ. २सू.२८)“नामगोत्रे गुरोः समानतो निर्दिशेत्”। मानः पूजा तत्पूर्वकं नाम ग्रहीतव्यं तत्रेश्वरो जनार्दनमिश्र इति।कथं तर्हि दीक्षितेन कार्यार्थ संभाषः कर्तव्यः भो भवत्पूर्वकं भोः शब्दं पूर्वं प्रयुज्यैनं दीक्षितमभिभाषेत दीक्षितयजमानादिशब्दैयौगिकैः । न तु भोः शब्दपूर्वकं नामग्रहणमभ्यनुज्ञायते । भो भवच्छब्दः पूर्वो यस्याभिभाषणस्य तदेवमुक्ते द्वयोश्चैतयोः शब्दयोरेकत्र वाक्ये प्रयोगाभावाद्यवस्थां व्याचक्षते । यदा तेन सह संभाषणं भवति १० तदाऽऽमन्त्रितविभक्त्यन्तेन भोः शब्देन संबोध्यः । यदा तु तदीयगुणाख्यानं परोक्षं करोति तत्रभवता दीक्षितेनैवं कृतं तत्रभवानेवं करोतीत्येवं प्रयोक्तव्यम् । भवदिति च प्रातिपदिकमात्रमुपात्तं यथा विभक्त्या संबन्धमुपैति तदन्तं प्रयोक्तव्यम् ॥ १२८ ॥ परपत्नी तु या स्त्री स्यादसंषर्द्धा च योनितः ॥ तां ब्रूयाद्भवतीत्येवं सुभगे भगिनीति च ।। १२९ ॥
१३३
मातुलां पितृव्यांश्च श्वशुरानृत्विजो गुरून् ॥ असावहमिति ब्रूयात्प्रत्युत्थाय यवीयसः ॥ १३० ॥
1
अर्थप्रयुक्तं संभाषणं स्त्रिया सह यदा भवति तदैवं कर्तव्यम् । या तावत्परस्य पत्नी सा 'भवति सुभगे' अथवा ' भवति भगिनि' । भवच्छब्दोऽयं स्त्रीप्रत्ययान्तः संबुद्धौ कृतह्रस्वः। भवतीत्यत्रेतिकरणं पदार्थाविपर्यासकृत्स्वरूपं परं बोधयति सुभगे भगिनीत्यत्र प्रकारे । ब्रूयादित्यधिकाराच्छब्दस्वरूपग्रहणं सिद्धम् । आकार्यतायां च मातर्यशस्विनि कनीयसी च दुहितरायुष्मतीत्येवमादिभिः शब्दैः संभाष्या । पत्नीग्रहणात्कन्याया नैष २० विधिः । असंबद्धा च योनित: मातृपक्षपितृपक्षाभ्यां या ज्ञातित्वं नागता मातुलदुहित्रादिस्तासामन्यं विधिं वक्ष्यति ( १३२ श्लोके ) 'ज्ञातिसंबन्धियोषित' इति । ननु च नैवैतत्सिद्धमस्योत्सर्गस्यान्यत्र चरितार्थत्वात्किम संबद्धा चेत्यनेन । नात्र पौनरुक्त्योद्भावने यतितव्यं पद्यग्रन्थोऽयम् ॥ १२९ ॥
For Private And Personal Use Only
गुरूनिति वचननिर्देशान्न य एवात्र गुरुरुक्तः स एव गृह्यते । किं तर्हि गौतमीय इव सामान्यशब्दो वित्तादिज्येष्ठवचनः । तान्यवीयसो भागिनेयादेः स्ववयोपेक्षया हीनवयसः ।
१ फ - असंबन्धा ।
१५
२५