________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता ।
[द्वितीयः
अकारश्चास्य प्रत्यभिवाद्यस्य यन्नाम तदन्ते योऽकारः स प्लुतः कर्तव्यः । प्लुत इति त्रिमात्रस्य संज्ञा । अकारग्रहणमिकारादीनामपि प्रदर्शनार्थम् । अनपेक्षमेव चान्तत्वं द्रष्टव्यम्। व्यञ्जनान्तस्यापि योऽन्त्यः स्वरस्तस्य भवति । पूर्वाक्षर एव प्लुतभाविनोऽकारस्य विशेषणमेतत् । अक्षरमत्र व्यञ्जनं तत्र पूर्वस्मिन्यस्मिन् श्लिष्टः स एवमुच्यते । एतदुक्तं भवति । पूर्व एव नागन्तुरकारः प्लुतः कर्तव्यः । किं तर्हि य एव नाम्नि विद्यते स एव प्लावयितव्यः । सर्वं चैतदेवं व्याख्यानं भगवतः पाणिनेः स्पृशति सामर्थेन । शब्दार्थप्रयोगे च मन्वादिभ्योऽधिकतरः प्रामाण्ये भगवान्पाणिनिः।स च 'प्रत्यभिवादे शूद्रे' (व्या.सू.८।२।८३) टेः प्लुतिं स्मरति । टिशब्देन योऽन्त्योच् तदादिशब्दरूपमुच्यते । विप्रग्रहणमविवक्षितम्
क्षत्रियादीनामप्येष एव विधिः स्मृत्यन्तरसमाचारो ह्येवमेव स्थितः। न चैषां विध्यन्तरमस्ति । १. अत्रोदाहरणमायुष्मान्देवदत्त३ । व्यञ्जनान्तस्यायुष्मानेधि सोमशर्म३न् ॥ १२५ ॥
यो न वेत्यभिवादस्य विप्रः प्रत्यभिवादनम् ॥ नाभिवायः स विदुषा यथा शूद्रस्तथैव सः ॥ १२६ ॥
यो न वेत्ति प्रत्यभिवादनमित्येवं वाच्यमभिवादस्येत्यतिरिच्यते न संगच्छते नैवमभिवादस्यानुरूपं प्रत्यभिवादनमित्येवं योजना क्रियते । येन स्वनामोच्चार्याभिवादनं कृतं १५ तस्य नामान्ते प्लतिः कर्तव्या । यस्त्वहं भो इत्येवमभिवदेन्न तस्य नाम्नोच्चारणं नापि
प्लतिरिति । नाभिवाद्य इत्यभिवादनशब्दोच्चारणप्रतिषेधः। यथा विहितमभिवादनं कर्तव्यम् । न पुनरहं भो इत्यादि तस्य प्राग्दर्शितत्वात् । यथा शूद्र इति च दृष्टान्तेनैतदेव ज्ञायते । शूद्रस्यापि वृद्धवयसोऽभिवाद्यत्वं पूर्वाभिभाष्यत्वमिष्यते । विदुषेति पादपूरणार्थम् ॥ १२६ ॥
ब्राह्मणं कुशलं पृच्छेत्क्षत्रबन्धुमनामयम् ॥
वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव च ॥ १२७ ॥
कृताभिवादनप्रत्यभिवादनयोः सौहार्दे प्राप्ते जिज्ञासाप्रश्ने जातिभेदाश्रयः शब्दनियमोऽयमिष्यते । प्रष्टव्यानां जातिनियमोऽयं न प्रष्ट्रणाम् । नात्यन्तभिन्नार्थत्वाच्च एतेषां
स्वरूपनियमोऽयं विधीयते । आरोग्यानामयशब्दौ समानार्थावेवं क्षेमकुशलशब्दावपि २५ नात्यन्तभिन्नौ । कुशलशब्दो यद्यपि प्रावीण्यवचनस्तथापीह संयोगिनामर्थानां शरीराणां
चानपाये वर्तते । एतेऽवश्यं प्रयोक्तव्या अन्येषामपि यथाप्रतिभम् । विशेषे जिज्ञासयाऽप्रतिषेधः । तथा महाभारते कस्मिंश्चिद्ध्याये दर्शितम् । केचिदिह समागम्येति लिङ्गान्न गुर्वादिविषयोऽयं प्रश्नः किं तर्हि सवयसामेव । अभिगमनं हि गुरौ विहितं न यदृच्छया समागमः । अभिगमनेऽपि समागमोऽस्तीति यत्किचिदेतत् ॥१२७॥
" मनोऽन्त्यादि टि" न्या. सू. (१-१-६४ ) ।
For Private And Personal Use Only