________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः । प्राज्ञग्रहणम् । तदीयामबोधशक्तिं ज्ञात्वोहितव्योऽभिवादप्रयोगो नोपदेश एवादर्तव्यः । स्त्रियाऽप्येवमेव । सर्वग्रहणं गुरुपत्नीनां संस्कृतप्रयोगज्ञानामपि । अन्ये तु य उपनामिकया प्रसिद्धो वनमालीवर्ण इति । पितृकृतं यत्तस्य नाम तन्न प्रसिद्धं यत्प्रसिद्धं न तन्नामेत्यतोऽसौ स्वनाम कीर्तयेत् । ___अन्ये तु प्रत्यभिवादं न जानत इति वर्णयन्ति । " प्रत्यभिवादे शूद्रे" ५ ( न्या.सू. ८।२।८३) इति नामान्ते प्लुतो विहितः । तं ये न विदुस्तेष्वहमित्येव वाच्यम् । व्याकरणप्रयोजनोपन्यासप्रसङ्गेन चैतन्महाभाष्यकारेण प्रदर्शितम् ।
___ " अविद्वांसः प्रत्यभिवादे नाम्नो ये न प्लुतिं विदुः । कामं तेषु तु विप्रोष्य स्त्रीष्विवायमहं वदेत् ॥
स्मृत्यन्तरसामर्थ्यादेवायमभिवादशब्दः प्रत्यभिवादे वर्तत इत्याहुः । यदि चैतदेवं १० न व्याख्यायते तदा नाभिवाद्यः स विदुषेति सर्वेण सर्वमभिवादप्रतिषेध आश्रीयमाणे यमहं वदेदिति स्मृत्यन्तरविरोधः । अस्मिंस्त्वेवं व्याख्याते स प्रतिषेधः स्तुत्यालम्बनो न विधायक एतदर्थानुसारितया नीयते ॥ १२३ ॥
भोः शब्दं कीर्तयेदन्ते स्वस्य नाम्नोऽभिवादने ॥
नाम्नां स्वरूपभावो हि भोभाव ऋषिभिः स्मृतः ॥ १२४॥ १५ स्वस्य नाम्नोऽन्ते भोः शब्द कीर्तयेत् । स्वग्रहणमभिवाद्यमानप्रतिषेधार्थम् । परिशिष्टोऽर्थवादः । न च नामाक्षराणामेवान्तेऽपि तु ततः परेषाम् । अहमस्मीति । एष हि तत्रेतिकरणं प्रयोगावधारणार्थम् एवमेव प्रयोक्तव्यः । अपि च देवदत्तो भो अहमिति दुःशिष्टे प्रयोगे विलम्बितायां प्रतिपत्तौ सम्मुखीभावः चिरेण स्यात्तत्र कार्यविरोधः । व्यवहितसंबन्धे कश्चिन्नैवावधानवान्स्यात् ।
स्वरूपभावः स्वरूपस्य सत्ताऽथवाऽभिवाद्यनाम्नां स्वरूपे भवति तत्स्थाने भवत्यतस्तन्नामनिवृत्तिः । भावसाधनः कर्तृसाधनो वा भावशब्दः । स्वरूपभाव इति सप्तम्यन्तो वा पठितव्यः । भोभावो भो इत्येतस्य यद्भवनं यत्स्वरूपं तन्नाम्नां स्वरूपम् । यथैव नाम गृहीत्वा कस्यचित्संवोधनं क्रियते देवदत्त श्रूयतामित्येवं भोः शब्दोऽप्यामन्त्रितविभक्त्यन्तः संबोधनायैवं ऋषिभिः स्मर्यते ॥ १२४ ॥
आयुष्मान् भव सौम्येति वाच्यो विप्रोऽभिवादने ॥
अकारश्चास्य नानोऽन्ते वाच्यः पूर्वाक्षरः प्लुतः ॥ १२५ ॥ अभिवादने कृते प्रत्यभिवादः पित्राऽभिवादयिता एवं वाच्यः आयुष्मान्भव सौम्येति इतिशब्दः प्रकारे । आयुष्मानेधि दीर्घायुर्भयाश्चिरञ्जीवेत्येवमादिशब्दपरिग्रहः शिष्टाचारप्रसिद्धो भवति ।
२५
For Private And Personal Use Only