________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२९
अध्यायः]
मनुस्मृतिः । एतदुक्तं भवति । यथाऽन्यनियमत्यागान्निन्द्यते एवं प्रत्युत्थानादित्यागादपि । अथ कथं वरं विप्र इति यावता वरो विप्र इति भवितव्यम् । केचिदाहुः सामान्योपक्रमस्य विशेषस्याभिधानात् । वरमेतत् किं तद्यत्सुयन्त्रितो विप्र इति । अन्ये त्वाहुराविष्टलिङ्गो वरशब्दो नपुंसकलिङ्गोऽप्यस्ति ॥ ११८ ॥
शय्यासनेऽध्याचरिते श्रेयसा न समाविशेत् ॥
शय्यासनस्थश्चैवैनं प्रत्युत्थायाभिवादयेत् ॥ ११९ ॥ शय्या चासनं चेति — जातिरप्राणिनामिति । (व्या. सू. २।४।६) द्वन्द्वैकवद्भावः तस्मिन् श्रेयसा विद्याद्यधिकेन गर्वादिना च न समाविशेन्न सहासीत । किं सर्वस्मिन्नेव नेत्याह । अध्याचरिते कल्पिते शय्यात्वेनासनत्वेन च । यत्तु शिलाफलकादिस्तत्र न दोषः । वक्ष्यति च ( श्लो. २०४ ) " आसीद्गुरुणा सार्धमिति ” तस्यैवायमनुवादः। १०
अन्ये व्याचक्षत अध्याचरिते अधिष्ठित इति । न समाविशेत्तत्रोत्तरकालमपि न केवलं सहासनप्रतिषेधः स हि वक्ष्यमाणेनैव सिद्धः । विधौ च संभवति नानुवादो युक्तः। तत्र केचिदाचारतो भेदं व्याचक्षते । यद्गुरोरसाधारण्येन शय्यात्वेनासनत्वेन च विज्ञात यंत्र गुरुः शेते आस्ते च तत्र शिष्यः प्रत्यक्ष परोक्षं च नोपविशेत् । यत्र तु कथंचिदेते क्रिये गुरुणा कृते तत्र गुरोरप्रत्यक्षं प्रतिषेधः । ईदृशमेवाध्याचरितमुच्यते । न स्वस्वामि- १९ संबन्धेन यदधिष्ठानम् ।
___ शय्यासनस्थस्य च यदि श्रेयानागच्छति तदा तत उत्थायाभिवादनं कर्तव्यम्। यत्तु यानासनस्थ इति तद्गुरुविषयमवरोहणम् । शय्यासनत्याग एव भूमिष्ठेन कर्तव्य इति तस्यार्थः । इदं त्वगुरोः श्रेयसः प्रत्युत्थानमासनस्थस्यैव संभवति ॥ ११९॥
ऊर्च प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति ॥ २०
प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्यते ॥ १२०॥ पूर्वस्यार्थवादः । स्थविरे वृद्धवयस्यायत्यागच्छति, यूनस्तरुणस्योर्ध्वं प्राणाः जीवितहेतवोऽन्तमरुत ऊर्ध्वमाम्याबहिर्निष्क्रामन्ति अपानवृत्तिं परित्यज्य जीवविच्छेद चिकीर्षन्ति । प्रत्युत्थाय यदभिवादनं क्रियते तेन यथापूर्व जीवितस्थेम्ने कल्पते । प्रतिपद्यते प्रत्युञ्जीवति ॥ १२० ॥
२५ अभिवादनशीलस्य नित्यं वृद्धोपसेविनः ॥ चत्वारि संवर्धन्ते आयुर्धर्मों यशो बलम् ।। १२१ ॥
फ-तत्र । २ फ-तस्य वर्धन्ते । ३ फ-आयुर्विद्या ।
For Private And Personal Use Only