SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेधातिथिमाष्यसमलंकृता । [द्वितीयः ब्रूहि यो हि निधि पाति रक्षति यतोऽसावप्रमादी न प्रमाद्यति न स्खलति तत्परत्वात् शक्ताप्तार्थदादीनां सर्वाशिष्याणामेतद्गुणसंयोगे देयेत्यस्मादर्थवादाद्गम्यते ॥ ११५ ॥ ब्रह्म यस्त्वननुज्ञातमधीयानादवामुयात् ॥ स ब्रह्मस्तेयसंयुक्तो नरकं प्रतिपद्यते ॥ ११६ ॥ योऽभ्यासार्थमधीयानस्यान्यं चोद्दिश्यैवं व्याचक्षाणस्य तत्संनिकर्षमन्य आगत्य तद्ब्रह्मापूर्व गृह्णीयात्संदेहं वाऽपनुदेत्तस्यैष दोष उच्यते । यावदनुज्ञामसौ न दाप्यते यथैते त्वत्सकाशादधीयत एवमप्यहमप्यधीयीयेत्यनुज्ञातुमर्हसीति लब्धानुज्ञां शिक्षेत । अन्यथा तु यद्ब्रह्माध्ययनं तत्स्तेयमिव सोऽध्येताऽनेन ब्रह्मचौर्येण संयुक्तो नरकं महायातनास्थानं प्राप्नोति । अधीयानादिति पञ्चमी " आख्यातोपयोगे" ( व्या. सू. १।४।२९) इति । १० अपायस्य वा गम्यमानत्वाद्ब्रह्म ह्यध्येतुर्निष्क्रामतीव । ल्यब्लोपे वा कणि । अधीयानं श्रुत्वाऽऽनोति शिक्षते ॥ ११६ ॥ लौकिकं वैदिकं वाऽपि तथाऽऽध्यात्मिकमेव वा ॥ आददीत यतो ज्ञानं तं पूर्वमभिवादयते ॥ ११७ ॥ अतिक्रान्तं प्रासङ्गिकम् । अभिवादनविधिरिदानी प्रक्रम्यते । लोके भवं लौकिकं १५ लोकाचारशिक्षणम् । अथवा गीतवादित्रकलानां ज्ञानं वात्स्यायनविशाखिकलाविषयग्रन्थज्ञानं वा । वैदिकं विधिनोदितम्। वेदवेदाङ्गस्मृतिविषयम् । आध्यात्मिकविद्याऽऽत्मोपनिषद्विद्याऽऽत्मोपचाराद्वा शरीरस्य । वैदिकमेतज्ज्ञानम् । यतः शिक्षेत तं पूर्वमुपदेष्टारं पुरुषमभिवादयेत । प्रथमसंगमे यदाशीःप्रयोगार्थ वक्ष्यमाणस्वरूपेण प्रयोगेण शब्देन संमुखीकरणं सोऽभिवादयतेरर्थः । पूर्वमिति प्रथमम् । तेनासौ संबोध्यो न पुनस्तदीयं वचनमपेक्षितव्यम् । २० तदा हि प्रत्यभिवादयिताऽभिवादयेदित्यनेनैव सिद्धत्वात् पूर्वशब्दोऽनर्थक इति चेत्तन्न । सति ह्यस्मिन्नयमों लभ्यते । धातूपसर्गार्थपर्यालोचनया ह्याभिमुख्येन वदनमात्रं प्रतीयते । अन्येनापि संबोधितस्य भवत्येव । ये तु पूर्व स्वयोगिगुरुभ्य इति व्याचक्षते तदप्रकृतसंशब्दितमित्युपेक्ष्यम् ॥ ११७ ॥ सावित्रीमात्रसारोऽपि वरं विप्रः सुयन्त्रितः॥ नायन्त्रितस्त्रिवेदोऽपि सर्वाशी सर्वविक्रयी ॥ ११८ ॥ अभिवादनाद्याचारविधेः स्तुतिरियम् । सावित्रीमात्रं सारं प्रधानं यस्य स एवमुच्यते । सावित्रीमात्राध्ययनो वरं श्रेष्ठो विप्रो यदि सुयंत्रितो भवति शास्त्रनिगृहीतात्मा। अयन्त्रितस्त्रिवेदोऽपि शास्त्रविदपि सर्वमश्नाति लोकाचारगर्हितं साक्षादप्रतिषिद्धमपि । एवं सर्वविक्रयी । प्रदर्शनार्थावशनविक्रयवन्यस्यापि प्रतिषिद्धस्य । १ फ-मस्तेयमिव । २ फ-शिक्ष्यते । ३ फ-च. 7 जन्मप्रभृति यत्किञ्चिच्चेतसा धर्ममाचरेत् ॥ तत्सर्वे विफलं ज्ञेयमेकहस्ताभिवादनात् ॥ १॥ रावसाहेबमंडलिकोद्धृतपुस्तकेऽयं श्लोकः पाठान्तर इति दत्तः । ५फ-विषयाध्यात्मिकविद्या। For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy