SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः] मनुस्मृतिः। १२७ विद्ययैव समं कामं मर्तव्यं ब्रह्मवादिना ॥ आपद्यपि हि घोरायां न त्वेनामिरिणे वपेत् ॥ ११३ ॥ समं शब्दः सहार्थे । अप्रतिपादितया स्वदेह एव जर्जरिततया युक्तं ब्रह्मवादिनो वेदाध्यायिनो मरणं न पुनरपात्रे प्रतिपादनम् । _अनेन च ज्ञायते । अध्यापनमप्यधीतवेदेनावश्यं कर्तव्यं न केवलं वृत्त्यर्थम् । ५ नापि वार्यादिदानवत्फलकामस्यैवाधिकारः । तथा च श्रुतिः “ यो हि विद्यामधीत्यार्थिने न ब्रूयात्स कार्यहा स्यात् । श्रेयसो द्वारमपावृणुयात् । अध्यापयेन्महदेतद्यशस्यं वाचोऽधिकारं कवयो वदन्ति । अस्मिन्योगे सर्वमिदं प्रतिष्ठितम् । य एवं विदुरमृतास्ते भवन्ति ।" स कार्यहा स्यादित्यनेनानध्यापने दोषमनुवदन्तीति श्रुतिरेवावश्यकर्तव्यतां ज्ञापयति । इरिणे पूर्वोक्तप्रयोजनत्रयाभावो यत्र । आपद्यपि हि घोरायां कष्टायामपि कष्टा १० आपदुक्तशिष्याभावः । एतच्चावश्यकर्तव्ये सत्युपपद्यते ।नित्यत्वे हि मुख्याभावे प्रतिनिधिशिष्योपादानेनाध्यापनानवृत्तिः प्राप्ता । ब्रीह्यभाववन्नीवारैः । अतोऽस्यामवस्थायामध्यापनाधिकारनिवृत्तिरेव । यथोक्तलक्षणातिथ्यभावेऽतिथिपूजानिवृत्तिः । वपेदिति लक्षणया बीनधर्मेणाध्यापनमुच्यते । बीनं किल क्षेत्रोप्तं बहुफलं भवत्येवं विद्याऽपि । ये तु धनाभावनिमित्तामापदमाचक्षते अत्यन्तदुर्गतेनापि नेरिणे वप्तव्येति वरं १५ म्रियता । "सर्वत एवात्मानं गोपायेद्" इति नैष विधिरतिक्रान्तो भवति सत्यपि तथाविधाध्यापने वृत्त्युपाये । तदेतद्युक्तं अर्थदो नैवेरिणं पूर्वोक्तानुवादत्वादिरिणशब्दस्य । यदि चार्थदोऽपि न भवति कथमापदि तत्र प्रवृत्ति: संभाव्यते, या निषिध्यते ॥ ११३ ॥ विद्या ब्राह्मणमेत्याह शेवधिष्टेऽस्मि रक्ष माम् ॥ असूयकाय मां माऽदास्तथा स्यां वीर्यवत्तमा ॥११४ ॥ २० अयमप्यर्थवाद एव। विद्या मूर्तिमती कचिदुपाध्यायमागत्याह प्रोक्तवती । शेवधिनिधिस्तवास्मि रक्ष माम् । का पुनस्ते रक्षा । असूयकाय कुत्साकराय निन्दकाय मां माऽदाः । निन्दकं माऽध्यापय । तथा चैवमहं वीर्यवत्तमाऽतिशयेन तव कार्यकरी भवामि । धीर्य कार्यनिवृत्तौ सामर्थ्यातिशयः । 'शेवधिष्टेऽस्मीति' कृतषत्वं पठितं तच्छान्दसप्रयोगामुकरणम् ॥ ११४ ॥ यमेव तु शुचिं विद्यानियतं ब्रह्मचारिणम् ।। तस्मै मां ब्रूहि विप्राय निधिपायाममादिने ॥ ११५॥ यं शिष्यं शुचिं जानीयानियतं संयतेन्द्रियं यत्नपरं ब्रह्मचारिणं तस्मै मां १उ-परणे । २ फ-बा। For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy