________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिमाष्यसमलंकृता ।
[द्वितीयः मानोऽपि यद्यन्यायेन पृच्छति तथाऽपि न वक्तव्यम् । प्रश्रयपूर्वकमस्मिन्वस्तुनि मे संदेहस्तदुपदेष्टुमर्हसीति शिष्यधर्मेण प्रश्नो न्यायेन । अन्यथा तु जाननपि जडवन्मूक इव लोके वर्तेत आचरेदज्ञ इव तूष्णीमासीत । शास्त्रविषयोऽयमपृष्टसंदेहापनयननिषेधः ।
व्यवहारे तु वक्ष्यति । “ नियुक्तो वाऽनियुक्तो वा धर्मज्ञो वक्तुमर्हतीति ।” अन्ये ५ त्वविशेषेणेच्छन्ति ॥ ११० ॥
अधर्मेण च यःप्राह यश्चाधर्मेण पृच्छति ॥ तयोरेन्यतरः पैति विद्वेषं वाऽधिगच्छति ॥ १११ ॥
अस्य प्रतिषेधस्यातिक्रमे दोषमाह । अधर्मेण पृष्टोऽन्यायपृष्टश्च यः प्रब्रवीति एवमेतद्युक्तमध्येतुमिति यश्च पृच्छति । तावुभावपि म्रियेते अप्राप्तकालौ । अथैको १० व्यतिक्रमकारी स एव म्रियते । यद्यन्यायेन पृष्टो न वक्ति तदा प्रष्टैव वाऽथ प्रतिवक्ति
तदोभावपि । अनेनान्यायप्रश्ने दोषदर्शनेन प्रष्टुाय्यः प्रश्नविधिः । विद्वेषं वा द्वेप्यतां लोके प्राप्नोति ॥ १११ ॥
धर्मार्थों यत्र न स्यातां शुश्रूषा वापि तद्विधा ॥ तत्र विद्या न वक्तव्या शुभं बीजमिवोपरे ॥ ११२ ॥
यदुक्तम् “ अध्याप्या दश धर्मत " इति तस्यैवायं प्रकारान्तरेण संक्षेपतः प्रतिनिर्देशो नापूर्वार्थाभिधानम्, प्रकृतानुवादत्वात् । अर्थशब्द उपकारमात्रलक्षणापरो द्रष्टव्यः, विद्याविनिमयेनापि पूर्वमध्ययनस्योक्तत्वात् । तद्विधाऽध्यापनानुरूपा । महति महती स्वल्पे स्वल्पेति । तत्र विद्या विद्यते ज्ञायते यया सर्वोऽर्थ इति सा विद्या पाठोऽर्थावबोधश्च । अनुपकारी नाऽध्याप्यः । न चास्यार्थविवरणं कर्तव्यम् ।
उपरो भूमिभाग उच्यते । यस्मिन्नखिलेऽपि मृत्तिकादोषाहीनं न प्ररोहति शुभं श्रेष्ठं व्रीह्यादिकं लाङ्गलादिनोप्यते एवं विद्याऽपि क्षेत्रे ह्युप्ता महाफला भवति । न चैतन्मन्तव्यम्, अर्थमादाय यध्यापनं साभृतिः । न हि पणपरिमाणसंभाषणपूर्विका तत्र प्रवृत्तिः यदेयद्ददासि तदैतध्यापयामीति । एतद्भुते रूपम् । न पुनरर्थोपकारगन्धमात्रेण ।
___ यत्तु न पूर्व किंचिद्गुरवे उपकुर्वीतोत नासौ पूर्वोपकारप्रतिषेधः किंतु २५ स्नास्यताऽवश्यमाज्ञप्तेन गुर्वर्थो यथाशक्ति संपाद्यः । तच्छेष एव प्रतिषेधो न
पृथग्वाच्यः ॥ ११२॥
१३-क्ष-वाऽपि गन्छति ।
For Private And Personal Use Only