SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ] मनुस्मृतिः । तद्यावज्जीविकम् । एतदा ब्रह्मचर्यसमाप्तेर्गुरुकुलानिवृत्तिलक्षणात् स्नानात्कर्तव्यं स्वाध्यायाध्ययनविध्यर्थत्वात् । ब्रह्मचर्यस्य तद्धर्माणां च यावग्रहणमनुवृत्तिस्तन्निवृत्त्या च निवृत्तिः सिद्धैवेति । अग्नीन्धनादीनां पुनर्वचनं तद्व्यतिरिक्तस्यातिक्रान्तस्य धर्मकलापस्योत्तरेषामप्याश्रमिणामनुष्ठानार्थम्। तथा च गौतमः (अ. ३ सू. ९) “ उत्तरेषां चैतदविरोर्धादिति "। अथैवं कस्मान्न भवति एते यावद्ब्रह्मचर्य भाविन अन्ये पुनरर्वागपि निवर्तन्त इति स्मृत्यन्तरमात्रदर्शितप्रधान कालानुवर्तिनश्च नियमा इत्येष न्यायः सत्यां गतौ बाधितः स्यात् । गुरखे हितमिति हितयोगे चतुर्थी ( व्या. सू. २।१।३६ ) न्याय्या ॥ १०८ ॥ १२५ आचार्यपुत्रः शुश्रूषुर्ज्ञानदो धार्मिकः शुचिः ॥ आप्तः शक्तोऽर्थदः साधुः स्वोऽध्याप्या दश धर्मतः ।। १०९ ।। १० तद्वक्ष्यति (श्लो.२३३) ‘सर्वेषामेव दानानां ब्रह्मदानं विशिष्यत' इति तत्र कीदृशाय विद्या दातव्या इति पात्रलक्षणार्थः श्लोकः । ब्रह्मचारिधर्मप्रसङ्गेनाध्यापनविधिरयमुच्यते । आचार्यस्य पुत्रः शुश्रूषा परिचर्या गृहोपयोगि शक्तितः कर्म करणं शरीरसंवाहनं चैं । ज्ञानाद् यः कश्चिद्गन्थ आचार्यस्य न विदितः शिष्येण कथंचिच्छिक्षितोऽर्थकामकलाविषयो धर्मत्रिषयो वा । विद्याविनिमयेनेदमध्यापनम् । धार्मिकः अग्निहोत्रादिकर्मानुष्ठानप्रधानः । १५ शुचिर्मृद्वारिशुद्धः अर्थशुद्धश्च । गोबलीवर्दवत्पदत्रयस्य पुनरुक्तं धार्मिकः शुचिः साधुरिति। आप्तःसुहृद्वान्धवादिः प्रत्यासन्नः । शक्तः ग्रहणधारणसमर्थः । स्वः पुत्रः उपनीतश्च पूर्वः अन्योपनीता अप्यध्याप्याः । ननु च धर्मत इत्युच्यते एतैरध्यापितैर्धर्मो भवति । अर्थदश्च दृष्टेनोपकरोति तत्र कुतोऽदृष्टकल्पना केनोक्तं कल्पमिति । श्रुते का कल्पना साक्षादेव हि श्रुतम् अध्याप्या दश २० धर्म इति । 1 उपाध्यायस्त्वाह धर्मशास्त्रव्यवस्थोच्यते । एतैरध्यापितैर्धर्मातिक्रमो न भवति, न पुनरर्थदे अध्यापिते विद्यादानलक्षणो धर्मो भवति ॥ १०९ ॥ नापृष्टः कस्यचिद्रूयान्न चान्यायेन पृच्छतः ।। जानन्नपि हि मेधावी जडवल्लोक आचरेत् ।। ११० ।। For Private And Personal Use Only २५ अधीयानेनानुपसन्नेन यदि नाशितमपाक्षरं विस्वरं वाऽधीतं तदाऽपृष्टेन न षक्तव्यम् । नाशितं त्वयैवमेतत्परितव्यमिति शिष्यस्य त्वपृच्छतोऽपि वक्तव्यम् । पृच्छ १ विरोधीति आनन्दाश्रमे मुद्रितगौतमीये पाठः । २ड-बा।
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy