________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[द्वितीयः
मेधातिथिमाष्यसमलंकृता । सदिवाकरामिति । तदपि काललक्षणं एतावान्काल इह संध्याशब्देनोच्यते । तत्र सांध्यो विधिरनुष्ठेयः। तत्रेयति सन्ध्याशब्दवाच्ये काले च मुहूर्तमात्रे यदि त्रिचतुरासु कालकलासु स्थानासननपान्कुर्यात् । संपन्न एव विध्यर्थः । न ह्यत्र कृत्स्नकालव्याप्तिः श्रुती मनोरिव सर्वथाऽग्निहोत्रसंध्याविधी समानकालावपि शक्यावनुष्ठातुम् ।
सदाशब्दो नित्यतामाह । उभयसंध्याशेषः । आसीत आसनमनूर्ध्वतावस्थानमुपविष्टो भवेत् । ऋक्ष नक्षत्रम् । आ तद्विभावनात् । आऽर्कदर्शनादिति य आकारः स इहानुषक्तव्यः । सम्यक्शब्दो दर्शनविभावनयोर्विशेषणम् । सम्यग्यदा परिपूर्णमण्डल आदित्यो भवति नक्षत्राणि च भास्वंति स्वभासा युक्तानि नादित्यतेजोभिभूतानि ॥ १०१॥
पूर्व सन्ध्यां जपंस्तिष्ठन्नैशमेनो व्यपोहति ॥ पश्चिमां तु समासीनो मलं हन्ति दिवाकृतम् ॥ १०२॥
अयमत्राधिकार उच्यते । एनः प्रतिषिद्ध सेवनाज्जातो दोषस्तं व्यपोहत्यपनुदति । निशि भवं नैशं रात्रौ कृतम् । एवं मलमेनःशब्देन समानार्थम् ।
न च सर्वस्य दिवाकृतस्य नैशिकस्य चैतत्प्रायश्चित्तम् । तथा सति कृच्छ्राद्युपदेशः प्रायश्चित्तविशेषोऽनर्थकः स्यात् । “ अर्के चेन्मधु विन्देत किमर्थ पर्वतं व्रजेदिति " १५ लौकिकात्प्रवादात् । किं तर्हि यदसवितं कृतं अशक्यपरिहारमनाम्नातप्रायश्चित्तविशेष
लघीय एनस्तदपैति । यदा सुप्तस्य हस्तचारशय्यापरिवर्तनादिना सूक्ष्मप्राणिवधो गुह्याङ्गकण्डूकर्षणेनाकस्मात्स्पृशेदिति प्रतिषिद्धम् । लालास्रवादिना चाशुचित्वमेतत्कालकृताशौचस्यावस्थाने प्रतिषिद्ध सेवनादि । एतदभिप्रायमेवेदम् । “ सर्वदैवाशुचिर्तेयः
संध्योपासनवर्जितः ” इति । न चानित्यतापत्तिरेवंविधस्य दोषस्य सर्वदाभावात् । दिवा २० च पथि गच्छन्नन्यस्त्रीमुखसंधानसंपन्नं तज्जन्यचित्तविकारोन्मीलने, क्रुद्धाश्लीलसंभाषणे तत्संध्याविधी अपनुदतः ।। १०२ ॥
न तिष्ठति तु यः पूर्वी नोपास्ते यश्च पश्चिमाम् ।। स शूद्रवदहिष्कार्यः सर्वस्माद्विजकर्मणः ॥ १०३ ॥
अनेनाननुष्ठानप्रत्यवायं वदन्नित्यतामेव समर्थयति । यः प्रातः संध्यायां नोर्ध्व २५ आस्ते न च पश्चिमायामुपविष्टो भवति स शूद्रतुल्यो वेदितव्यः । सर्वस्माविनातिकर्मणः
आतिथ्यादिसत्कारसंप्रदानादितो बहिष्कार्योऽपनोद्यः । अतः शूद्रसमानतानिरासार्थ नित्यमनुष्ठेया संध्या । इदमधिकारवाक्यम् । अत्र च स्थानासन एवोपात्ते जपे यस्य चाधिकारसंबन्धस्तत्प्रधानमन्यत्तत्संबन्धमङ्गम् ॥ १०३ ॥
१फ-अनित्यत्वापत्तिः । ३ फ-एवोपपत्त पेयस्य ।
For Private And Personal Use Only