________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२०
मेधातिथिभाष्यसमलंकृता।
[ द्वितीयः उपसंहरति । सत्यपीन्द्रियत्वे मनसः प्राधान्यात्पृथगुपादानम् । ग्रामः संघातः विधेहि कृत्येन्द्रियाणि तथा मनः सर्वानर्थाश्रौतस्मातकर्मसाध्यान्संसाधयेन्निप्पादयेत् । तनुं शरीरमक्षिण्वन्नपीडयन् योगतः युक्त्या । सहसा कस्यचित्कठिनासनकृष्णाजिनादिप्रावरणपीडा भवति सुकुमारत्वात्प्रकृतेस्तदर्थमिदमुच्यते । येषां सुशीलितं सुसंस्कृतं भोजनं मृदुशय्यादि न तैः सहसा तत्त्यक्तव्यमपि तु क्रमेण । सात्म्यतामानेतव्यम् । तद्विपरीतं योगः क्रमेण प्रवृत्तिरुच्यते । तत्र च योगतो वशीकृत्वेति संबन्धः । यथास्थानमेव वा योगत इति योजनीयम् । युक्त्या औचित्यतः शरीरं नापनयेत् । यदुचितं शरीरस्य न तज्झटिति निवर्तयेत् तात्पर्य वा योगः तृतीयायोगः तृतीयार्थे तसिः । तात्पर्येण शरीरं रक्षेत् ॥ १० ॥
पूर्वी संध्यां जपंस्तिष्ठेत्सावित्रीमाऽर्कदर्शनात् ॥ पश्चिमां तु सदाऽऽसीनः सम्यगृक्षविभावनात् ॥ १०१ ॥
संमुखे प्रातः पूर्वा संध्या। आदित्यास्तमये पश्चिमा । तां तिष्ठेत् जपन्सावित्रीम् । आसनादुत्थाय निवृत्तगतिरेकत्र देशे स्यात् । सावित्री उक्तैव — तत्सवितुर्वरेण्यमिति '।
तस्या ह्यनुवादाः । ॐकारादिविधिः श्लोके । संध्यानपार्थम् ‘एतदक्षरमेतां चेति' । आऽर्क१५ दर्शनादिति । यावद्भगवानादित्यो दृष्टः । जपस्थानयोरयमेव विनिर्देशः।
ननु किमत्र विधिनाऽर्कोदय एव संध्या निवर्तते । तथाहि । न सर्व तमः क्षीणं नापि परिपूर्णः प्रकाश एषा संध्या । उक्तं च । “ दिवि प्रकाशो भुवि चान्धकारः कालः स सावित्र इति प्रदिष्टः। निरुक्तेऽप्युक्तम् “अधो भागः सावित्र' इति । पशुसमाम्नाये विज्ञा
यते “ कस्मात्सामान्यादधस्ताद्रोमोऽधस्तात्कृष्ण ” इति । आदित्योदये च सर्वतस्तमो २० निवर्तते । उभयधर्मानिवृत्तौ च संध्या रात्रिधर्मेऽहधर्मे च ।।
अत्यन्तसंयोगे चैषा द्वितीया । संध्यामिति । तेन यावत्संध्याकालं तिष्ठेदित्युक्तं भवति ततः परं स्वातंत्र्यं स्थितमेव । केचिदाहु वेयमत्यन्तसंयोगे द्वितीया किं तर्हि "कालश्चाकर्मकाणां कर्मसंज्ञो भवतीति" वार्तिककारस्तत्र 'कर्मणि द्वितीये' त्येव द्वितीया ।
यत्तु “ कालावनारत्यन्तसंयोग " इति तद्यत्र क्रियावाची शब्दो न प्रयुज्यते । क्रोशं २५ कुटिला नदी । सर्वरात्रं कल्याणी उभयत्र च सकर्मको धातुः । मासमधीयत इति सत्यं
तस्य विषय इह पुनः संध्यां तिष्ठेदिति । तिष्ठतिरकर्मकः । अतो विधिनिर्देशः कृत्स्नसंध्याप्राप्त्यर्थ स्थानासनयोः कर्तव्यः । आरम्भकालस्त्विह नोक्तः संध्याशब्देनैव
१फ-साम्यम् । २ फ-कुचिंतानः क्ष-कुचित्यतः। ३ फ-समासीनः । । फ-किमविधिना। ५ फरामो । ६ फ-धर्मानिवृत्तौ । ७ " कालाध्वनोरत्यन्तसंयोगे" (व्या. सू. २।३।५)। ८ व्या. सू. (२।३२१)
For Private And Personal Use Only