________________
Shri Mahavir Jain Aradhana Kendra
अध्यायः ]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनुस्मृतिः ।
वेदास्त्यागश्च यज्ञाश्च नियमाश्च तपांसि च ॥ न विदुष्टभावस्य सिद्धिं गच्छन्ति कर्हिचित् ॥ ९७ ॥
अयमत्र विधिरेव | वेदास्तद्विषयमध्ययनजपादि । त्यागो दानं लक्षणया । अथवाऽप्रतिषिद्धस्यापि मधुमांसभक्षणादेर्निवृत्तिः फलदेत्यनेन वर्जनं विप्रदुष्टो भावश्चित्तं यस्य तस्य । सिद्धिं न गच्छन्ति फलसाधकानि न भवन्ति । कस्मिंश्चिदपि काले । अतोऽनुष्ठान काले-५ . नाभिप्रेतादिगतमानसेन भवितव्यम् । शक्यं तर्हि सर्वेतरविकल्पतिरस्कारेण कर्मणि मन आधेयं अंगं हि कर्मसु विषय चिन्तात्यागोऽनेन वाक्येन विहितः । तदभावे कर्मनैष्फल्यं स्यात् । एष हि भावदोषो यत्कर्मानुष्ठाने प्रवृत्तस्य तत्परतात्यागेन व्यसनेषु मनोऽवधानम् ॥ ९७ ॥
श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा त्रात्वा च यो नरः ॥ न त्यति ग्लायति वा स विज्ञेयो जितेन्द्रियः ॥ ९८ ॥
इन्द्रियाणां तु सर्वेषां यद्येकं क्षरतीन्द्रियम् ॥
तेनास्य क्षरति प्रज्ञा दृतेः पादादिवोदकम् ॥ ९९ ॥
११९
श्रुत्वा वंशगीतादिध्वनिं त्वं बृहस्पतिरित्यादिवचनं श्रुत्वा न दृष्यति । रूक्षपरुषाक्रोशवाचः श्रुत्वा न ग्लायति न मनोदुःखं भजति । ग्लानिः खेदः । स्पृष्ट्वा राङ्कवकौशेयादिवस्त्रं अजलोमकुतपञ्च समत्वेनानुभवति । एवं सुवेपतरुणीजननटप्रेक्षासु शत्रुदर्शने च समः बहुघृतं क्षीरषष्टिकान्कोद्रवांश्च समं भोजने । देवदारुतैलं कर्पूरादि च १५ तुल्यं जिघ्रतः । तथाकर्तव्यम्, यथा केवलैर्मानसैः सुखदुःखैर्न स्पृश्यते । एवं तेन जितानीन्द्रियाणि भवन्ति । न त्वप्रवृत्त्यैव । इयत्पर्यतः संयमः आश्रयणीयः ॥ ९८॥
वशे कृत्वेन्द्रियग्रामं संयम्य च मनस्तथा ॥ सर्वान्संसाधयेदर्थानक्षिण्वन् योगतस्तनुम् ।। १०० ।।
१ फ-मानसम् । २ फ- अगर्हितकर्मसु । ३ ड-क्ष- यत्कर्मणस्तत्परतात्वेन ।
For Private And Personal Use Only
१०
ननु च ब्रह्मचारिणा स्त्रीसंबन्धो यत्नेन वर्ज्यः, संस्कृतभिक्षालाभस्तु किमिति २० निषिध्यते । अत आह । निर्धारणे षष्ठी । एकमेव यदीन्द्रियं क्षरति । स्वातन्त्र्येण स्वविषये वर्तमानं न निवार्यते । ततोऽस्य क्षरति प्रज्ञा धैर्यमिन्द्रियान्तरविषयमपि । इतिश्यागादिचर्मोदकाद्याहरणभाजनं तस्य संवृतेष्वपीतरेषु यद्येकस्मादुदकं पादात्स्रवति सर्वे रिच्यते । ज्ञानाभ्याससंभृतं धैर्य सम्यक्ज्ञानमेव वा विषयगृध्नुतया तद्गतमानसस्य न तत्त्वतो युक्तिशास्त्रगम्या अर्थाः सम्यक् प्रतिभासते ९९ ॥
२५