________________
Shri Mahavir Jain Aradhana Kendra
११८
५
www.kobatirth.org
मेधातिथिभाष्यसमलंकृता ।
[ द्वितीयः
I
स्तृप्तस्यातिसाहित्यमपि गतवतो भवति त्हृदयसमीहा किमिति न शक्नोमि अन्यद्भोक्तुम् अशक्त्या तु न प्रवर्तते । ततो नैषा भोगेन शक्या निवृत्तिर्न कदाचित्कामोऽभिलाषः । कामानां काम्यमानानां स्पृहणीयानामर्थानामुपभोगेन सेवया शाम्यति निवर्तते । भूयोऽ धिकतरं वर्धते । हविषा घृतेन कृष्णवर्त्माऽग्निरिव । दुःखरूपश्चाभिलाषः । अनुपभुक्तरसस्य त्वभिलाषानुत्पत्तिः । तत्त्वप्रसंख्यानमेतत् । उक्तञ्च यत्पृथिव्यां व्रीहियवहिरण्यं पशवस्त्रियः । नालमेकस्य तत्सर्वमिति मत्वा शमं व्रजेत् " ॥ ९४ ॥
"(
Acharya Shri Kailassagarsuri Gyanmandir
यश्चैतान्प्राप्नुयात्सर्वान् यश्चैतान्केवलांस्त्यजेत् ॥
प्रापणात्सर्वकामानां परित्यागो विशिष्यते ।। ९५॥
पूर्वोक्तं हेतुत्वेनोपजीव्यायं निगम श्लोकः पठितो यदा सेवया वर्धते कामः अतो य १० एतान्कामान्कामी सर्वान्प्राप्नुयात्सेवेतानेकमण्डलेश्वर इव तरुणः यश्चैनांस्त्यजति केवलानीषदपि न स्पृशति नैष्ठिक एव बालः । तयोर्यः प्रापको भोक्ता तस्मात्स विशिष्यते । अतिशयेन श्रेष्ठो भवति । यः परित्यजेदिति । एतच्चात्मप्रत्यक्षम् ॥ ९५ ॥
न तथैतानि शक्यन्ते संनियंतुमसेवया ॥
विषयेषु प्रजुष्टानि यथा ज्ञानेन नित्यशः ॥ ९६॥
१५
I
1
यद्येवमरण्यवास एव तर्हि प्राप्ते न हि तत्र विषया संनिधीयन्ते । असंनिहिताश्च न सेविष्यन्ते । तदर्थमाह । न सेवया इंद्रियाणि नियन्तव्यानीति । अथोच्यते । निःसुखः स्यादिति हि स्मरन्ति । असंनिहिताश्च न सेविष्यन्ते । तदर्थमाह । नासेवया इन्द्रियाणि नियन्तव्यानीति पूर्वाह्णमध्यंदिनापराह्नानफलान्कुर्याद्यथाशक्तिधर्मार्थकामेभ्यः। न च शरीरधारणमसेवया भवति । किं तु गर्धनिषेधोऽयमुच्यते । स च गर्द्धः सत्याऽपि सेवया २० ज्ञानेन विषयगतदोपज्ञानेन अस्थिस्थूणास्नायुयुतमित्यादिशास्त्रोक्तेन । स्वसंविदा च विपाकविरसतया । किंविपाकफलमेवादिदोषभावनया वैराग्याभ्यासेन क्रमेण स्पृहा निवर्तते । न सहसैव त्यक्तुं शक्यते, कर्तुं नित्यशः नित्यकालं ज्ञानविशेषणमेतत् । प्रदुष्टानि प्रवृत्तानि दोषत्वात् । प्रदुष्टान्येव प्रवृत्तान्युच्यते । अयमंशस्तत्र तत्र । नित्यशः अनुपूर्वशः सर्वशः पूर्वश इति व्यासमनुप्रभृतिभिर्महामुनिभिः प्रयुज्यते । तस्य साधुत्वे यत्नः २५ कर्तव्यः । तत्र शस्विधौ " एकवचनाच्च वीप्सायामिति ” ( व्या. सू. ५।४।४३ ) पठ्यते । तत्र वीप्सार्थः कथंचित् द्योतयितव्यः । अन्ये तु शसस्तिष्ठत्यर्थस्य क्विपि रूपं वर्णयन्ति । क्रियाविशेषणं चैतत् नपुंसकं नित्यस्थितेन ज्ञानेनेत्यर्थः ॥ ९६ ॥
1
1
१ फ- तप्त । २ गौतमीये ९ ४६ । ३ फ- ननु ।
For Private And Personal Use Only