________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अध्यायः ]
मनुस्मृतिः ।
श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका चैव पञ्चमी || पायूपस्थं हस्तपादं वाचैव दशमी स्मृता ।। ९० ।।
श्रोत्रादीनि प्रसिद्धानि । अधिष्ठानभेदाच्चक्षुषी इति द्विवचनम् । अन्यत्र तदाधारायाः शक्तेरेकत्वादेकवचनम् । उपस्थः शुक्रोत्सर्जनः पुंसो जवस्तदाधारश्च स्त्रियाः । द्वन्द्वनिर्दिष्टयोः ‘प्राण्यङ्गत्वादेकवद्भावः ' ( व्या. सू. २।४।२ ) । वाक्ताल्वादिशब्दाभिव्यञ्जकः ५ शरीरावयववचनः । नामनिर्देशोऽयम् ॥ ९० ॥
Acharya Shri Kailassagarsuri Gyanmandir
बुद्धीन्द्रियाणि पञ्चैषां श्रोत्रादीन्यनुपूर्वशः ॥
कर्मेन्द्रियाणि पञ्चैषां पाय्वादीनि प्रचक्षते ॥ ९१ ॥
1
कार्यमिदानीमेपामाह स्वरूपाऽवधारणार्थम् । न हि तानि प्रत्यक्षानि बुद्धेरिन्द्रियाणि जनकानि कार्यकरणानि । कार्यकरणसंबंधे षष्ठी । श्रोत्रादीन्यनुपूर्वशः । आदिशब्दस्य १० प्रकारार्थता मा विज्ञायीति । अनुपूर्वशः क्रमेणेत्यर्थः । क्रमश्च सन्निवेशापेक्षो भवत्यतः पूर्वश्लोकोक्ता व्यवस्थाऽऽश्रीयते । कर्मेन्द्रियाणि परिस्पन्दात्मकमत्र कर्म विवक्षितम् ॥९१॥ एकादशं मनो ज्ञेयं स्वगुणेनोभयात्मकम् ॥
यस्मिन् जिते जितावेतौ भवतः पञ्चकौ गणौ ॥ ९२॥
1
एकादशसंख्यापूरकं मन इन्द्रियाणाम् स्वो गुणो मनसः संकल्पः । तेनोभयं १५ शुभमशुभं वा संकल्प्यते । अथवा बुद्धीन्द्रियेषु कर्मेन्द्रियेषु स्वविषयप्रवृत्तौ संकल्पमूलत्वादुभयात्मकमुच्यते । यस्मिञ्जिते एतौ बुद्धीन्द्रियवर्गः कर्मेन्द्रियवर्गश्च पञ्चकौ प्राक्प्रदर्शितपरिमाणौ जितौ भवतः ॥ ९२ ॥
इन्द्रियाणां प्रसङ्गेन दोषमृच्छत्यसंशयम् ॥
सन्नियम्य तु तान्येव ततः सिद्धिं नियच्छति ॥ ९३ ॥
प्रसङ्गस्तत्परता । तेन हेतुभूतेन दृष्टमदृष्टं च ऋच्छति प्राप्नोति । नात्र संशयो निश्चितमेतत् । संनियम्य तानीन्द्रियाणि ततः सिद्धिमभिप्रेतार्थावाप्तिं श्रौतस्मार्तकर्मणामनुष्ठानफलं निःशेषं गच्छति प्राप्नोति ॥ ९३ ॥
न जातु कामः कामानामुपभोगेन शाम्यति ।। हविषा कृष्णवर्मेव भूय एवाभिवर्धते ॥ ९४ ॥
११७
तिष्ठतु तावद्विषयाभिलापः शास्त्रोपदेशान्न क्रियते । किंतु दृष्टमेव सुखं तावन्निवृत्तेर्भवति । तथाहि सेव्यमाना विषया अपि अधिकं गर्द्धमुत्पादयन्त्युदरपूरं भुक्तवत
१ फ-बुद्धीन्द्रियाणि ।
For Private And Personal Use Only
२०
२५