________________
Shri Mahavir Jain Aradhana Kendra
११६
www.kobatirth.org
ܘܐ
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता ।
जप्येनैव तु संसिध्येड्राह्मणो नात्र संशयः ॥ कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते ।। ८७ ।
जप्येनैव सिद्धिं काम्यफलावाप्तिं ब्रह्मप्राप्तिं वा प्राप्नुयात् । नात्र हृदि शंका कर्तव्या । यज्ज्योतिष्टोमादिभ्यो महाप्रयासेभ्यो भावनाभ्यश्च यल्लब्धव्यं तज्जपेन ५ कथं सिध्यतीति सिद्ध्यत्येव । कुर्यादन्यन्नित्यं ज्योतिष्टोमादि । अथवा तदपि न कुर्याद्यतो मैत्रो ब्राह्मण उच्यते । मित्रमेव मैत्रं सर्वभूतमैत्रीरतेन ब्राह्मणेन भवितव्यम् । अग्निषोमीय पशुहिंसायां च कुतो मैत्री । अयमर्थवाद एव । न पुनः पश्वङ्गकर्मप्रतिषेधः पूर्वशेषत्वा वगतेः प्रत्यक्षश्रुतिविहितत्वाच्च तेषाम् । अतिक्रान्तो जपविधिः ॥ ८७ ॥
I
1
इन्द्रियाणां विचरतां विषयेष्वपहारिषु ।।
संयमे यत्नमातिष्ठेद्विद्वान् यन्तेव वाजिनाम् ॥ ८८ ॥
[ द्वितीयः
1
इन्द्रियाणां संयमे यत्नमातिष्ठेदित्येतावाञ्छास्त्रार्थः । परिशिष्टोऽर्थवादः आसंध्योपासनविधेः । संयमः प्रतिषिद्धेषु विषयेषु अप्रवृत्तिः परिहारोऽप्रतिषिद्धेष्वप्यतिसक्तिंवर्जनम् । तत्र प्रतिषिद्धपरिहारस्तैरेव प्रतिषेधैः सिद्धः । अप्रतिसिद्धेष्वप्यतिसक्तिनिषेधार्थोऽयं श्लोकसंघातः । एतदेवाह । विचरतां विषयेषु स्वातन्त्र्येण वस्तुशक्त्या प्रवर्तमानानाम् । १५ अपहारिषु विषयेष्वपहरन्त्या कर्षन्त्यात्मसात्कुर्वन्ति पारतन्त्र्यमापादयन्ति । पुरुषापैहारिणो विषया मनोहरा य उच्यन्ते तत्र विचरतां विविधं विशेषेण चरताम् । यदीन्द्रियाणि विशेषेण न चरेयुरपरिहारिणोऽपि तदा विषयाः किं कुर्युः । भवन्तु वा निरंकुशानीन्द्रियाणि । यदि विषयाः प्रत्याख्यायिकास्तथाऽपि सुसंयमः पुरुषेणात्मा । यतस्तूभयं सापराधमतो यत्न आस्थेयो दुर्नियमानि तानि । नियन्तेव वाजिनां यन्ता सारथि२० रश्वानां यथा रथयुक्तानां स्वभावतो विचलनशीलानां संयमे नियमे यत्नं करोति न तदानिच्छया उन्मार्गेण वहन्ति, विधेयतां तस्य भजन्त एवमिन्द्रियाणि विधेयीकर्तव्यानि ॥ ८८ ॥ एकादशेन्द्रियाण्याहुर्यानि पूर्वे मनीषिणः ॥
तानि सम्यक्प्रवक्ष्यामि यथावदनुपूर्वशः ।। ८९ ॥
For Private And Personal Use Only
संख्यानिर्देशोऽयं प्रमाणान्तरगम्यो न पदार्थः सौहार्देन तु व्युत्पाद्यते । तानि
२५ पूर्वे मनीषिण आहुः । परस्तान्नामतः कर्मतश्च वक्ष्यामि । आनुपूर्व्यमनाकुलता । पूर्वग्रहणान्नेयं तार्किकैरेव व्यवस्था कल्पिता । किंतु पूर्वेषामप्याचार्याणां स्थितैव । एतामजानतो नागमिक इति । लोकैरपि हस्यते । इत्यतो ये वेदितव्याः प्रसिद्धाः पदार्था व्याख्याताश्च प्राक् || ८९ ॥
१ फ-प्रवृत्तिपरिहारो । २ ड-क्ष-फ- अतिसक्तिर्वर्जन । ३ ड-क्ष-फ-पुरुषानपहारिणो ।