________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्याय: ]
मनुस्मृतिः ।
अथ युक्ता ॐकारस्य स्तुतिः केवलस्यापि जपविधानार्थेति केचित् । न हि प्रकृतविधिशेषतैवात्र पुनः परामर्शाभावात् । वैश्वानरे ह्यष्टत्वादीनां “यदृष्टाकपालेो भवति, गायत्र्या चैनं ब्रह्मवर्चसेन पुनाति, यन्नव कपालस्त्रिवृतैवाऽस्मिंस्तेजो दधाति" इति (अष्टक १ अन्त्यपादः) । सर्वत्र वैश्वानर पदापेक्षया तदेकवाक्यत्वे संभवति । न वाक्यभेदकल्पनया विध्यन्तर संभवः । इह त्वक्षरं ज्ञेयमिति । न पूर्वापेक्षा नापि सावित्र्यादीनां पुनः परामर्शोऽस्ति । अतः स्वपदार्थै- ५ रेव वाक्यार्थपरिसमाप्तर्नान्यशेषता । ज्ञेयमित्यत्र कृत्यो विधायकः । ब्रह्मपदेन च संबन्धाद्ब्रह्मरूपतया ज्ञेयमुपास्यं भावनीयम् । भाव्यमाने च तस्मिन्मानसजप उक्तो भवति ॥ ८४ ॥
११५
विधियज्ञाज्जपयज्ञो विशिष्टो दशभिर्गुणैः ||
1
उपांशुः स्याच्छतगुणः साहस्रो मानसः स्मृतः ।। ८५ ॥ विधिविषयो यज्ञो विधियज्ञो ज्योतिष्टोमादिर्यत्कर्म यजेतेति चोदितं ब्राह्मण व्यापारेण ऋत्विगादिसर्वाङ्गसंपत्त्या क्रियते स विधियज्ञ इहोच्यते । जपस्तु न यज्ञः । प्रशंसया यज्ञ उपचारेणोच्यते । अतो नासौ विधियज्ञः । स विशिष्टः प्रकृष्टः श्रेष्ठो यज्ञो ज्योतिष्टोमादेर्दशभिर्गुणैः । महाफलत्वमेतेन जपस्योच्यते । यदेव यागात्फलं तदेव बहुतरजपात्प्राप्यते । न च यागेभ्यः श्रौतेभ्यो जपस्याधिकफलत्वं युक्तम् । तथाहि सति कः १५ शरीरधनपरिक्षयरूपेषु यागेष्वध्यवस्येत् । तस्मात्प्रशंसैषा । पूर्णाहुत्या सर्वान्कामानवामोतीतिवत् । एतावदस्यार्थस्तदेव स्वर्गादिफलमवाप्यते । किंतु लोकवत्प्रयत्नविशेषात् । फलपरिमाणविशेषोऽविशोपत्वात् । यज्ञस्य स्वर्गग्राम पुत्रपश्वादि यस्य यज्ञस्य यत्फलं तत्तज्जपात्प्राप्यते । उपांशुः शतगुणः यदन्यो न शृणोति समीपस्थोऽपि । सहस्रगुणः साहस्रो मानसः व्यापारमात्रेण यश्चिन्त्यते जपमात्रविषय उपांशुत्वादिगुणः, प्रकृतस्य योऽधी- २० तेत्यनेन विच्छेदात्तेन यः प्रायश्चित्तादौ जपो यः शान्तिको यश्चाभ्युदयिकः सर्वत्रैते गुणाः । सहस्रमस्यास्तीति साहस्रः । गुणानां प्रकृतत्वात्सहस्रगुणसद्भावः प्रतीयते । गुणशब्दश्चावयववचनः । फलभूमा च संबन्धादवगम्यते ॥ ८५ ॥
ये पाकयज्ञाश्चत्वारो विधियज्ञसमन्विताः ||
For Private And Personal Use Only
१०
२५
सर्वे ते जपयज्ञस्य कलां नार्हन्ति षोडशीम् ।। ८६ ।। महायज्ञाः पाकयज्ञा उच्यन्ते, ब्रह्मयज्ञं वर्जयित्वा चत्वारो यज्ञा भवन्ति । विधियज्ञा उक्तास्तैः समन्विताः सहिताः कलामंशं षोडशीं नार्हन्ति । षोडशेन भागेन न समा भवन्ति । अथवाऽर्हतिः प्रात्य अर्हन्ति रूपम् ॥ ८६ ॥
1
मूल्यपणने वर्तते ।
शब्दात्तिपं कृत्वा
१ फडक्ष ब्राह्मन । २ ड क्ष - अर्धशब्दात् ।