SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेधातिथिभाष्यसमलंकृता। द्वितीयः एकाक्षरं परं ब्रह्म प्राणायामाः परं तपः॥ सावित्र्यास्तु परं नास्ति मौनात्सत्यं विशिष्यते ॥ ८३ ॥ ओङ्कार एकाक्षरं तत्परं ब्रह्म। ब्रह्मप्राप्तिहेतुत्वात् । “तज्जपस्तदर्थभावनया" ( योग सू. १।२८ ) ब्रह्मप्राप्तेरेवमुच्यते । ओमिति ब्रह्माभिधानम् । एवं ह्याहु५ स्तस्य वाचकः प्रणव इति । तत्परं प्रकृष्टं कुतोऽन्याभ्यः ब्रह्मोपासनाभ्यो “ अन्नं ब्रह्मेत्युपासीत, आदित्यो ब्रह्मेत्यादेश" इति एवमाद्याभ्य उपासनाभ्यः ओङ्कारोपासना प्रकृष्यते । अध्ययनादेव तत्प्राप्त्यभिधानात् । शब्दस्यैव च ब्रह्मत्वेन श्रवणात् । " शब्दब्रह्माण निष्णातः परं ब्रह्माधिगच्छतीति " । सर्वो ह्यर्थो वाग्व्यवहारानतीतो वाचश्च सर्वस्या ओङ्कारो मूलम् । तथा च श्रुतिः । “ तद्यथा शंकुना सर्वाणि पत्राणि संतृण्णान्येवमोङ्कारेण सर्वा वाक् संतृण्णा ओङ्कार एवेदं सर्वमिति ” । अन्तर्धानमनुस्मृतिः आश्रयभावापत्तिा । कथं पुनः सर्वा वागोङ्कारेण संतृण्णा । वैदिक्यास्तावदोङ्कारपूर्वकत्वमुक्तम् । लौकिक्या अपि, 'तदादीनि वाक्यानि स्युरि'त्यापस्तम्ब वचनात् । उपनिषद्भाप्ये चैतदन्यथा व्याख्यातम् । तत्त्विहानुपयोगान्न प्रदर्शितम् । प्राणायामशब्द आचमनवद्विशिष्टेतिकर्तव्यताके प्राणनिरोधे वर्तते । परं तपश्चांद्रायणा१५ दिभ्यः। किं पुनस्तस्य श्रैष्ठ्यम् । भक्तिरेषा । सावित्र्याः परं मन्त्रज्ञानं नास्ति एषामिति प्रशंसा । मौनात्सत्यं विशिष्यते । मौनं वाड्मियम उच्यते । तस्य चे नियमे उच्यते यत्फलं ततोऽधिकं सत्यवचनात्प्राप्यते सत्यवचने विध्यर्थोऽपि तथाऽनुष्ठितो भवति । मौने तु केवलमनृतप्रतिषेधानुष्ठानमेव । अर्थवादोऽयं श्लोकः ॥ ८३ ॥ क्षरन्ति सर्वा वैदिक्यो जुहोतियजतिक्रियाः॥ २० अक्षरं त्वक्षरं ज्ञेयं ब्रह्म चैव प्रजापतिः ॥ ८४ ॥ यावन्तः केचन वैदिका होमा अग्निहोत्रादयो ये च यागा ज्योतिष्टोमादयः ते सर्वे क्षति न परिपूर्णा भवन्ति । फलं वा तदीयं स्रवत्याशु विनश्यति । अक्षरं त्वेतदोङ्काराख्यमक्षरं ज्ञेयमक्षयफलम् । ब्रह्मीभूतस्य न पुनः संसारापत्तिः । अतोऽक्षयफलत्वादक्षरमुच्यते । एकोऽक्षरशब्द उद्देश्यः संज्ञाशब्दो द्वितीयो यौगिकः क्रियाशब्दः । ब्रह्म चे तदेव । प्रजापतिश्चोङ्कार एव । स्तुतिरेषा । “जुहोतियनतीति" धातुनिर्देशस्तयोः क्रियाप्रतिपाद्यार्था यागहोमाः । व्यक्त्यपेक्षं बहुत्वम् । अथवा धात्वर्थनिर्देश एवायं जुहोति यजतीति क्रियास्तद्वयतिरिक्ता दानाद्याः । द्वंद्वश्वायम् । जुहोतियजतीति च क्रियाश्च होमयागौ प्राधान्यात्पृथगुपादीयेते। १ मांडूक्ये । २ ड-क्ष-तस्य च यत्फलम् । ३ फ-दुष्करं । । फ-परिपूर्णफला । ५फ-ब्रह्मैव तदैव । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy