________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११३
अध्यायः ]
मनुस्मृतिः। भवति । निरवशेषेण पापनाश एतेन प्रतिपाद्यते । यत्तु दोश्चर्यादिसूचितं पूर्वकृतमशुभं तत्र स्मृत्यन्तरे प्रायश्चित्तमाम्नातं बहु । तत्प्रायश्चित्तेप्वेव निदर्शयिष्यामः । एतदेवाभिप्रेत्योक्तम् । " जपतां जुह्वतां चैव विनिपातो न दृश्यते" इति ॥ ७९ ॥
एतयर्चा विसंयुक्तः काले च क्रियया स्वया।
ब्रह्मक्षत्रियविड्योनिगर्हणां याति साधुषु ॥ ८० ॥ एतया सावित्र्या विसंयुक्तो हीनसंध्योपासनस्त्यक्तस्वाध्यायश्च गर्हणां निन्दा साधुषु विशिष्टेषु याति प्राप्नोति । कीदृशीं गर्हणां प्राप्नोत्यत आह । काले च क्रियया स्वया काल"आपोडशादि"त्यस्मिन्वियुक्ते गते निन्द्यते। एवमुपनीतोऽपि स्वाध्यायारम्भयोग्यः सावित्रीवर्जितो व्रात्य एव भवति । त्रयाणां या साधारणी स्वक्रिया सेह निर्दिष्टा सा चोपनयनमेव । कालशब्दश्चैवमर्थवान् । अध्ययनादिस्वकर्मविवक्षायामेतावदेव वाच्यं स्यात् १० यत् क्रियया स्वयेति । योनिशब्दो जन्मपर्यायो जात्यर्थ गमयति । विप्रादिजातीय इत्यर्थः । अर्थवादोऽयं व्रात्यप्रायश्चित्तार्थः ॥ ८ ॥
ओङ्कारपूर्विकास्तिस्रो महाव्याहृतयोऽव्ययाः ॥
त्रिपदा चैव सावित्री विज्ञेयं ब्रह्मणो मुखम् ॥ ८१॥ ॐकारः पूर्वो यासां ता ओङ्कारपूर्विकाः । महाव्याहृतयः प्रकृता एव भूर्भुवः १५ स्वरित्येते शब्दा अभिधीयन्ते । अव्यया अविनाशिन्यः फलस्य दीर्घकालत्वादेवमुच्यते । अन्यथा “ सर्व एव शब्दा नित्या" इति विशेषणमनर्थकम् । त्रिपदा तत्सवितुरित्येषा सावित्री ब्रह्मणो मुखम् । आद्यत्वान्मुखव्यपदेशः अतश्चारम्भे अध्येयमेतदित्यस्यैवार्थवादः । अथवा मुखं द्वारमुपायो ब्रह्मप्राप्तिरनेन भवतीत्येतदेवाह ॥ ८१ ॥
योऽधीतेऽहन्यहन्येतां त्रीणि वर्षाण्यतन्द्रितः॥
स ब्रह्म परमभ्येति वायुभूतः खमूर्तिमान् ॥ ८२ ॥ आकाश इव सर्वव्यापी विभुः संपद्यते खमूर्तिः खस्वभाववान् भवति । न तु मूर्तिः शरीरमाकाशस्य शरीराभावात् । अथ किमिदं ब्रह्म, यद्रूपापत्तिरुच्यते । परमात्माऽऽनन्दरूपः यस्येमे क्षेत्रज्ञाः पवनजवोद्धतस्य वारिराशेरिवोर्मयः । ते यथा प्रशान्तावस्थे तस्मिंस्तद्रूपा भवन्ति । एवममी तद्रूपा आत्मानः संपद्यन्ते । विशेषतश्च २५ सर्वमेतद्वादशे वक्ष्यते । अध्ययनमिदं गायच्याश्चोदितं न जपो न चावृत्तिगणनाऽस्ति । अतन्द्रित इतिवचनाद्बहुकृत्वः करणं प्रतीयते । सकृत्प्रयोगे हि नास्ति तन्द्राशङ्का । मोक्षार्थिनोऽयं विधिः ॥ १२ ॥
१ अ. २ श्लो. ३८ । २ फ-भवति तदेवाह । ३ फ-ननु । १५
For Private And Personal Use Only