SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११२ मेधातिथिभाष्यसमलंकृता । [द्वितीयः वरेण्यामिति " सावित्री व्याहृतयः पूर्वा यस्यास्तां व्याहृतिपूर्विकां तिस्रः प्रकृता एव ता व्याहृतयो गृह्यन्ते प्रकृतपरत्वादस्य न सप्तसत्यान्ताः ॥ ७८ ॥ सहस्रकृत्वस्त्वभ्यस्य बहिरेतत्रिकं द्विजः॥ महतोऽप्येनसो मासात्त्वचेवाऽहिर्विमुच्यते ॥ ७९ ॥ बहिरित्यनावृतो देश उच्यते तेनैतदुक्तं भवति। ग्रामनगराभ्यां बहिररण्ये नदीपुलिनादौ। सहस्रवारानभ्यस्याऽऽवयं न तु कृत्वसुचोऽप्यावृत्तिः प्रतिपाद्यते । अभ्यस्येत्यनेनापि तत्र पौनरुक्त्यम् । सामान्यविशेषभावाददोषः । अभ्यस्येत्यनेन सामान्यतोऽभ्यास उक्तस्तत्र विशेषापेक्षायां सहस्रकृत्वेति । न च कृत्वसुजन्तादेवोभयाऽवगतिस्तस्य क्रियाविशेषापेक्षत्वात् । न हि देवदत्तः पर कृत्वोऽह्न इत्युक्ते यावद्भुङ्ग इति 'नोच्यते तावद्वाक्यार्थः समाप्यते । ननु चाभ्यस्येत्यनेनापि न काचिद्विशिष्टा क्रियोपात्ता । सत्यम् । जपः प्रकृतस्तमभ्यस्येति प्रतीयते । आवृत्तिः पौनःपुन्येन सेवा । महतोऽप्येनसः । महत्पापं च ब्रह्महत्यादि । ततोऽपि मुच्यते किं पुनरुपपातकेभ्यः । अपिः संभावने, न समुच्चये । भेदोपादानेन समुच्चयावगमो यथा देवदत्तस्यात्र प्रभुत्वं यज्ञदत्तस्यापि । इह न तथा निर्देशः । केभ्यः पुनरुपपातकेभ्योऽयं मोक्ष उच्यते । गोवधादीन्युपपातकानि । तानि च प्रतिपाप१५ माम्नातप्रायश्चित्तानि सरहस्यानि यानि वा संवत्ति न कृतान्यनुक्तपरिहाराण्यवश्यंभावि तया च ज्ञायते । कृतानीति । तेषामपि नित्यानि संध्योपासनादीन्यपनोदकानि । यदि चैतत्प्रायश्चित्तं स्यात्तदा तत्रैवावक्ष्यत् । “ जपेद्वै नियताहारः त्रिवें वेदस्य संहितामिति " च । प्रायश्चित्ते चास्मिन्प्रायश्चित्तप्रकरणमेवानर्थकं स्यात् । को हि दैववशप्राप्तो जपमात्र. साध्यां निष्कृतिं हित्वा कृच्छ्रेषु शरीरप्राणहरेष्वध्यवस्येत् । उक्तं च । “ अर्के चेन्मधु २० विन्देत किमर्थ पर्वतं व्रजेत् । इष्टस्यार्थस्य संप्राप्तौ को विद्वान्यत्नमाचरेत् " ॥ तथा " पणलभ्यं हि न प्राज्ञः क्रीणाति दशभिः पणैः " इति । न च प्रकृतेनैकवाक्यताबीजं किंचिद्विभज्यमानसापेक्षत्वाद्यस्ति येन तच्छेषतयाऽर्थवाद उच्यते । अत्रोच्यते। विधिरेवायम् । पापप्रमोचनार्थ एवायं प्रयोगः । यत्तूक्तं "विषमशिष्टैर्विकल्पो न सिध्यतीति " जपप्रायश्चित्त एवास्मिन्विकल्पार्थो भविष्यति । अघमर्षणादिभिः सर्वपापापनोदनमुक्तं तेनास्य विकल्पः । अघमर्षणे हि त्र्यहमुपवास उक्तः । इहानन्नेव मासिकेन प्रयोगेण शुध्यति । ततो न दूरविप्रकृष्टे न तपसा समीयते येन विषमशिष्टता स्यात् । अथवा पूर्वकृतस्यैनसः शुद्धिरेषा ग्रहादौ स्थित्यादिसूचिते देवे दोषे तस्मान्मोक्षः । अनिष्टमेन उच्यते । तस्मान्मुच्यते । तत्फलेन न संबध्यत इत्यर्थः । त्वचेवाहिर्जीर्णया त्वचा मुक्तः सर्पो यथा १फ-सत्यानन्ताः । २ "संख्यायाः क्रियाभ्या० " (न्या. सू. ५।४।१५)। ३ फ-तेनोच्यते । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy