SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः] मनुस्मृतिः। १०९ प्रणवप्रयोगस्यान्वाहिकारम्भार्थता तु नित्यकालग्रहणानुवृत्त्यैव सिद्धा । अस्यार्थवादः स्रवत्यनोंकृतम् । पूर्व प्रारम्भे अनोंकृतं ब्रह्म स्रवति। ॐ मितिकृतं ॐ शब्देन संस्कृतम् । साधनं कृतेति समासः । अथवा ॐ कृतमित्युच्चारितो यस्मिन्ब्रह्मणि तदोंकृतं सुखादित्वात्परनिपातः । परस्ताच्च समाप्तौ । चकारेणानोंकृतमिति संबध्यते। स्रवति विशीर्यति इत्युभाभ्यामपि नैप्फल्यमध्ययनस्य प्रतिपाद्यते । अधीतं ब्रह्म यस्मिन्कर्मणि विनि- ५ युज्येत तन्निष्फलं भवतीति निन्दार्थवादश्च पाकाथै निषिक्तस्याप्राप्तपाकक्षीरादेरवच्छिद्रिते भाजने य इतस्ततो विक्षेपः प्रक्षरणं तत्स्रवतीत्युच्यते तच्च पाकस्य पिण्डीभूतस्य भोग्यतां प्राप्तस्य यो विनाशः स विशरणम् ॥ ७४ ॥ प्राकूलान्पर्युपासीनः पवित्रैश्चैव पावितः ॥ प्राणायामैखिभिः पूतस्तत ॐकारमर्हति ॥ ७५ ॥ कूलशब्दो दर्भाग्रवचनः । तान्पर्युपासीनः तेषु प्रागग्रेषु दर्भेषविष्ट इत्यर्थः। 'अधिशीस्थासामिति' ( व्या. सू. १।४।४६ ) स्था आ आसामित्याङा प्रश्लेषात्कर्मत्वम् । परि उप आ आसीन इति इहाप्याङाश्लिष्टनिर्दिष्टो द्रष्टव्यः । पर्युपशब्दावनर्थको । पवित्र दभैरेवमादितः शुचित्वमापादितः । अघमर्षणादिषु मन्त्रो नेह पवित्रशब्देनोच्यते । ब्रह्मचारिणस्तदानीमनधीतत्वात्तेषां न च दर्भाः स्वसत्तामात्रेण काञ्चिक्रियामकुर्वतः पावने करणं १५ भवन्तीति । अवान्तरव्याफारापेक्षया स्मृत्यन्तरे प्राणोपस्पर्शनं प्रतीयते। आह च गौतमः। ( अ. १ सू. ४९।५०) “ प्राणोपस्पर्शनं दभैः । प्राकूलेप्वासनं च। प्राणायामैत्रिभिः पूतः मुखनासिकासंचारी वायुः प्राणस्तस्यायामो निरोधः, शरीरे धारणं बहिनिष्क्रमणनिषेधः, तस्य स्मृत्यन्तरे धारणकालस्य मानं समाम्नातम् । मन्त्रानुस्मरणं च । “प्रतिप्रणवसंयुक्तां गायत्रीं शिरसा सह । त्रिपेदायतप्राणः प्राणायामः स उच्यते" । वसिष्ठेन भगवता २० महाव्यात्दृतयोऽप्युक्ताः । मन्त्रावसान एव निरोधावधिरन्यस्यानाम्नातत्वात्सर्वस्मृतीनां चासति विरोध एकार्थत्वादिहाप्येवमेवानुष्ठानम् । ___ नन्वेवमितरेतराश्रयः स्यादकृतेषु प्राणायामेषु ओङ्कारो न कर्तव्यो न चोङ्कारेण विना प्राणायामो निवर्तते । नैष दोषः । त्रिपेदिति प्राणायामेषु मानसव्यापारेणोङ्कारस्य स्मरणमुच्यते । न हि निरुद्धप्राणस्य शब्दोच्चारणं संभवति । यद्यपि जपः कश्चिद्वाग्न्यापार- २५ साध्यो भवति । स्वाध्यायाध्ययने तु पुनरुच्चारणं विवक्षितम् । अध्ययनक्रियाया एवंरूपत्वाच्छब्दक्रियायां धातुः । श्रोत्रग्राह्यश्च शब्दो न केवलेन मनसा गृह्यते । न चायमोङ्कारधर्मो येनान्यत्रापि तस्मिन्नुच्चार्यमाणेऽपि प्रसज्येत । उक्तं च "स्वाध्यायारम्भे कर्तव्य" इत्योङ्कारधर्मत्वे हि लौकिकेषु वाक्येष्वोमिति ब्रूम इत्यादिषु प्रसज्येत । गौतमेन १या. व. आचारे २३ श्लो. For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy