________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः] मनुस्मृतिः।
१०७ वृत्तिः पुरुषस्य तत्रेदं पादग्रहणं वेदस्य तु यान्याद्यक्षराणि आग्निमीळे' 'इषेत्वा' 'अग्न आयाहि' इति न सोऽत्रारम्भ उच्यते । न हि तस्य निमित्तभावः संभावितः नित्यत्वात् । कादाचित्कं हि निमित्तं भवति तेनैतदुक्तं भवति । वेदाध्ययनमारिप्समानो गुरोः पादसंग्रहणं कुर्यात्कृत्वा ततः स्वाध्यायाक्षराण्युच्चारयेन्न पुनः प्रवृत्ताध्ययनक्रियः पादौ गृह्णीयात् ।
ननु चाद्यक्रियाक्षण आरम्भः, स च निमित्तं विद्यमानस्य च निमित्तत्त्वं युक्तं ५ जीवनस्येव । अत्र गेहदाहाद्यतीतमपि निमित्तं तत्र तथैव श्रवणम् । तस्मात्सहप्रयोग एवाध्ययनपादोपसंग्रहणयोर्युक्तः । उच्यते । अध्यापनाध्यवसाय आरम्भ उच्यते । नाद्यः क्रियाक्षणः यदैव गुरुरधीप्वेत्याह तदैवाध्यवस्यति माणवकः । अतस्तदनन्तरं पादोपग्रह उपकारप्रवृत्तस्य गुरोश्चित्तप्रसादनमेतत् । यथा लोके कश्चिदुपकारप्रवृत्तं सभाजयति वाचा 'ननु त्वया वयमस्मात्पापान्मोचिता' इति । अनक्षरा चेयमध्येषणा 'उपसन्नाः १० स्माध्ययनायेति' । न हि गुरुरुपरोध्योऽध्यापयति केवलमुपसदनमस्य कर्तव्यं संबोधार्थमवसरोऽध्ययनस्यति । अतः कृतोपसदनस्य वेदाक्षरोच्चारणम् । अपि च संहत्य हस्तावध्येतव्यमित्युच्यते । तत्राधीयानः पादोपसंग्रहणविधिमतिक्रमेत । अवसानं समाप्तिरध्ययनादुपरमः । यद्यपि ब्रह्मशब्द आरम्भे गुणभूतस्तथाप्यवसानस्य सापेक्षत्वात्सन्निहितत्वाब्रह्मपदेनैव संबन्धः प्रतीयते अन्यस्याश्रुतत्वात् । सदाग्रहणमन्वहं भाविप्रयोगारम्भावसान- १५ योरेष विधिर्यथा स्यादितरथा य एव व्रतादेशानन्तरो मुख्यप्रारम्भः तत्रैव स्यात् ।
___ अथान्वारम्भणीया दर्शपूर्णमासारम्भे चोदिताय एवाधानानन्तरभावी दर्शपूर्णमासप्रयोगारम्भः तत्रैव भवति । न मासिकप्रयोगारम्भे। न मासिकप्रयोगारम्भे प्रातः प्रातरारभ्य यावदाह्निकं न निवृत्तं प्रपाठकद्वयमात्रपरिमाणं तावदेकैव साऽध्ययनक्रियेति । अंतरा कथंचिद्विच्छेदेऽपि पुनः प्रवृत्तौ नारम्भशब्दवाच्यताऽस्तीति न पुनः पादोपसदनं क्रियते। २० स्मृत्यन्तरे च पठ्यते "पादोपग्रहणं गुरोः प्रातरन्वहमिति " । संहत्य संलग्नौ संश्लिष्टौ परस्परं कृत्वाऽध्येयम् । कच्छपकर्ण इति यः संनिवेशो हस्तयोः प्रसिद्धस्तथा कर्तव्यः स हि ब्रह्माञ्जलिः । पदार्थकथनमेतत् ॥ ७१ ॥
व्यत्यस्तपाणिना कार्यमुपसङ्घहणं गुरोः ॥
सव्येन सव्यः स्पष्टव्यो दक्षिणेन च दक्षिणः ॥ ७२ ॥ २५ यदुपसंग्रहणं पूर्व श्लोके गुरोरुक्तं तद्व्यत्यस्तपाणिना कार्यम्। कीदृशः पुनः पाण्योय॑त्यासः कर्तव्य इत्यत आह। सव्येन हस्तेन सव्यः पादः स्पष्टव्यःस्पर्शः कर्तव्यो न तु चिरं निपीड्यासितव्यम् । एष च व्यत्यासो युगपदितरेतरदिक्संचारेण हस्तयोर्भवति ।
१ गौतमीये अ. २ सू. ५३ । २ ड--तु ।
For Private And Personal Use Only