________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०१
मेधातिथिभाष्यसमलंकृता।
[द्वितीयः उपनीय गुरुः शिष्यं शिक्षयेच्छौचमादितः॥
आचारमग्निकार्यं च सन्ध्योपासनमेव च ॥ ६९ ॥
शिक्षयेद्वयुत्पादयेच्छौचमादितः । आदित इति वचनेनाचारादिभ्यः प्रागुपदेशः शौचस्येष्यते। किंतर्झनियतक्रमकाः परस्परमेते। केवलमुपनयनानन्तरं व्रतादेशनं वक्ष्यति । ५ आदिष्टवेदव्रतस्य च वेदाध्ययनम् । अतोऽग्नीन्धनसंध्योपासनयोः समन्त्रकत्वादकृते व्रतादेशे
मन्त्रोच्चारणमप्राप्तं विधीयते । शौचं चानियतकालं तदवशिष्टं तदहरेवोपदेष्टव्यमेवमाचारोऽपि । अत इदमादित इति वचनमादरार्थ न प्रथमोपदेश्यतां शौचस्य विधत्ते । शौचम् एकालिङ्ग' ( अ. ५ श्लो. १३६ ) इत्याद्याचमनान्तम् । आचारो गुर्वादीनां प्रत्युत्थानासनदानाभि
वादनादिभिः । अग्निकार्यमग्न्याधानकार्य समित्समिन्धनं संध्यायामादित्यस्योपासनं १० तत्स्वरूपभावनं संध्याया उपासनम् । एवं वा 'पूर्वी संध्यामित्यादि ' (अग्रे१ ० १ श्लो.)। एष व्रतधर्मः ॥ ६९॥
अध्ययनधर्मानिदानीमाह
अध्यष्यमाणस्त्वाचान्तो यथाशास्त्रमुदङ्मुखः ॥
ब्रह्माञ्जलिकृतोऽध्याप्यो लघुवासा जितेन्द्रियः ॥ ७० ॥ १५ प्रत्यासन्ने भविष्यति लड़यं द्रष्टव्यः। अध्ययने प्रवर्तमान अध्ययनमारभमाण अध्येतु
मिच्छन्निति यावत् । उदङ्मुखोऽध्याप्यः। गौतमाये तु “प्राङ्मुखो वा शिष्यः प्रत्यङ्मुख आचार्य" इति (अ.१२.५५)।आचान्तो यथाशास्त्रमिति । प्रागुक्तमाचमनविधि स्मारयति । ब्रह्माञ्जलिः कृतो येनेति। आहिताग्न्यादेराकृतिगणत्वान्निष्ठान्तस्य परनिपातः । ब्रह्माञ्जलि
कृदिति वा पाठः । लघुवासा धौतवासाः प्रक्षालनेन लघुनी वाससी भवतः । अतो लघुत्वेन २० वाससः शुद्धिलक्ष्यते । अथवाऽयं रोमादिस्थूलवसनः चित्तव्याक्षेपे ताड्यमानो न प्रहार
वेदयेत्ततश्च न युक्तः पठेत् । अपनीयमाने तु वाससि गुरोः खेदः स्यात्। निरावरणे च काये रज्वादिना ताड्यमानो महतीं बालो वेदनामनुभवेदतो दृष्टार्थ लघुवासस्त्वम् । जितानि नियमितानीन्द्रियाण्युभयान्यपि येन स जितेन्द्रियः। न इतस्ततो वीक्षेत, यत्किंचिन्न शृणुयादध्ययनेऽवहितो भवेदित्युक्तं भवति ॥ ७० ॥
ब्रह्मारम्भेऽवसाने च पादौ ग्राह्यौ गुरोः सदा ॥ संहत्य हस्तावध्येयं स हि ब्रह्माञ्जलिः स्मृतः ॥ ७१॥
ब्रह्मशब्दोऽयमनेकार्थोऽप्यध्ययनाधिकारादत्र वेदवचनः प्रतीयते, तस्यारम्भे । निमित्तसप्तम्येषा । अध्ययनाधिकारादेव च तद्विषयाऽध्ययनक्रिया तस्यायमारम्भः प्रथमा
१ फ-तदवश्यम् । २ ड-वाससी ।
For Private And Personal Use Only