________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मध्यायः ]
मनुस्मृतिः ।
पूर्वेणावृद्वचनेन जातकर्मादिवदुपनयनेऽप्यमन्त्र के अप्ते तदापत्तिवचनं विवाहस्य तन्निवृत्त्यर्थमारभ्यते ।
वैवाहिको विधिः स्त्रीणां संस्कारो वैदिषः स्मृतः। पतिसेवा गुरौ वासो गृहार्थोऽग्निपरिक्रिया । देश
वेदग्रहणार्थो वैदिकः संस्कार उपनयनाख्यो यः स स्त्रीणां वैवाहिको विधिः । विवाहे भवो विवाहविषयो विवाहसाध्यः । अतो विवाहस्योपनयनस्थाने विहितत्वात्तस्य निवृत्तिर्यदि विवाहस्तत्कार्यकरः । हन्त प्राप्तं वेदाध्ययनं प्राप्ता च व्रतचर्या। उपनयनं नाम मा भूद्भवदुभयमपि निवर्तयति । पतिसेवा गुरौ वासः । पतिं यत्सेवत उपचरत्याराधयति स एवास्या गुरौ वसतिः। गुरौ वसत्याऽध्ययनं कर्तव्यं न चास्या गुरौ वासोऽस्त्यतः कुतोऽध्ययनम् । गृहार्थो गृहकृत्यानि रन्धनपारिणह्यप्रत्यवेक्षणादीनि यानि नवमे वक्ष्यन्ते । (लो. ११) १० “अर्थस्य संग्रहे चैनाम्”इत्यादि । सायंप्रातर्ब्रह्मचारिणो यत्समिदाधानं तदेवास्या गृहकृत्यम् । अग्निक्रियया च यावान्यमनियमसमूहो ब्रह्मचारिणः स सर्व उपलक्ष्यते ।
एवं चैतदुक्तं विवाहस्योपनयनापत्यं यथैव मनुष्यायोपनयनात्प्रभूति श्रौताः स्मार्ता आचारप्राप्ताश्च विधयो भवन्ति प्राक्तनं कामचारवाद्भक्षत्वमेवं स्त्रीणां प्राग्विवाहात्कामचारः । परस्मात् श्रौतस्मार्तेष्वधिकारः । एवं वा पदयोजना | विवाह एव स्त्रीणां वैदिकः संस्कार १५ उपनयनम् । अनुपनयनेऽपि विवाहे भक्त्योपनयनत्वमुच्यते । किं तदुपनयन विवाहस्य साम्यं येनास्य तद्वयपदेश अत आह । पतिसेवेत्यादि ॥ ६७ ॥
प्रकरणोपसंहारः
एष प्रोक्तो द्विजातीनामपिनायानको विधिः । उत्पत्तिव्यञ्जकः पुण्यः कर्मयोगं निबोधत ।। ६८ ।।
१०५
* अभिहोत्रस्य शुश्रूषा सायमुद्वासमेव च ॥ कार्य पत्न्या प्रतिदिनं इति कर्म च वैदिकम् ॥ १ ॥ १ क-क्ष-वसता । २ क्ष-ड- सर्वोऽप्युपलक्ष्यते ।
१४
For Private And Personal Use Only
एतावदुपनयनप्रकरणम् । अत्र यदुक्तं तत्सर्वमुपनयनार्थम् । ननु केशान्तोऽप्येवं प्राप्नोति । नानिर्वृत्ते उपनयने स्वकाले तस्य विधानात् प्रकरणेऽपि पठितस्य वाक्यादन्यार्थता भवति । तथा च केशान्तः समावृत्तस्यापि कैश्चिदिष्यते । उपनयने भव औपनायनिकः । उत्तरपदस्य दीर्घत्वम् । पूर्ववद् उत्पत्तिस्तन्मातापित्रोः सकाशाज्जन्म तां व्यनक्ति प्रकाशयति सगुणतां करोतीत्युत्पत्तिव्यञ्जकः । जातोऽप्यजातसमोऽनुपनीतोऽधिकाराभावात् । २५ अतोऽयं विधिरुत्पत्तिव्यञ्जकः पुण्य इत्युक्तार्थम् । उपनीतस्य येन कर्मणा योगः संबन्धोऽधिकारो यत्तेनोपनीतेन कर्तव्यं तदिदानीं वक्ष्यमाणं निबोधत ॥ ६८ ॥
२०