________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता।
[द्वितीयः कपालस्य; येनैवमुच्यत अस्मात्पुनरुपादानाद्धारणमनुमीयते । उच्यते । ग्रहणं तावद्दण्डस्य चोदितं मेखलाया बन्धनं तत्र सूत्रकस्य विन्यासस्तावदुपनयनाङ्गत्वेनावश्यं कर्तव्यम् । कृते तस्मिन्कृतः शास्त्रार्थः । उत्तरकालं किं तैनष्टैरनष्टा । अङ्गनाशे च प्रतिपत्तिविशेषः कर्मोपकारको भवति । न च तेषां किंच न कार्यमाम्नातं येन तत्सिद्धयर्थ विशिष्टे काले वाचनिकमुपादानमकृतत्वाच्च कार्यस्य तत्प्रयुक्तं पुनरुपादानमर्थसिद्धमुच्यते । तस्मात्प्रतिपत्तिविधानादुपादानवचनाच्च धारणमङ्गं न च प्रयोगापवर्गि । यतः कमण्डलुनोपनयनोत्तरकालानुवर्तिना तुल्यवन्निर्देशात्तेषामप्युत्तरत्रानुवृत्तिः प्रतीयते । सा च व्रताङ्गम् । अत उभयार्था मेखलादयः प्रकरणादुपनय नार्थाः । निवृत्ते चोपनयने दर्शनाद्यावद्ब्रह्मचर्य
भाविनः । कमण्डलुना चोदकार्थः कर्तव्योऽस्मादेव प्रतिपत्तिविधानात् । अन्यथा यदा कम१० ण्डलुस्तदेयं प्रतिपत्तिरिति पाक्षिकत्वं स्यात्तत्र दण्डधारणं प्रतिगृह्य दण्डं भिक्षा चरेदिति
क्रमाद्भक्ष्यचर्याङ्गत्वमेव प्राप्त समाचारादभैक्षेऽर्थेऽपि भ्रमणे भवत्येव । न तु सर्वदैव करतलधृतदण्डस्य स्थानासनशयनभोजनादीनि । तथा च स्वाध्याये ब्रह्मांजलिं वक्ष्यति । मंत्रवदित्युपनयनविधिना ग्रहणमनुवदति । तत्र च मेखलाया मन्त्रो न दण्डस्य ॥ ६४॥
केशान्तः षोडशे वर्षे ब्राह्मणस्य विधीयते ।। १५ राजन्यबन्धोविंशे वैश्यस्य द्वयधिके ततः ॥६५॥
केशान्तो नाम संस्कारः स गर्भषोडशे वर्षे ब्राह्मणस्य कर्तव्यः । तस्य च स्वरपपरिज्ञाने गृह्यमेव शरणम् । द्वे वर्षेऽधिके यस्य द्वाविंशस्य तस्मिन्यधिके द्वाविंशे। अथवा कालमात्रमन्यपदार्थः । ततो द्वाविंशाद्वर्षाद्वयधिके काले । वैश्यस्येति द्विशब्दस्य च वर्षा
ण्येव संख्येयानि प्रकृतानि हि तानि ॥ ६५ ॥ २० अमन्त्रिका तु कार्येयं स्त्रीणामादशेषतः॥
संस्कारार्थं शरीरस्य यथाकालं यथाक्रमम् ॥ ६६ ॥
इयमावदशेषतः स्त्रीणाममंत्रिका कार्या । जातकर्मण आरम्येयं संस्काराणामावृत्परिपाठी। सेतिकर्तव्यताकः संस्कारकलाप इति यावत् । संस्कारार्थ शुद्ध्यर्थ शरीरस्य। पौंस्नमेव
स्त्रीणामपि प्रयोजनमाह । यथाकालं यस्मिन्काले यः संस्कार उक्तस्तं कालमनतिक्रम्य । २५ पदार्थानतिवृत्तौ — यथासादृश्ये ' अव्ययीभावः । एवं क्रमेऽपि द्रष्टव्यम् । मन्त्रमात्र
रहिताया आवृतो विहितत्वादयथाकालक्रमप्राप्तिरेव नास्तीत्यतो निषेधो नित्यानुवादो वृत्तपूरणार्थः । एतावद्विवक्षितं स्त्रीणां चैते अमन्त्रका इति ॥ ६६ ॥
. फ-तत्र सूत्रस्य । २ फ-भ्रमणं। ३ फ-द्वाविंशस्तस्य । रफ-विशेषतः । ५फ-ख-ड-क-क्ष-परिपाटी।
For Private And Personal Use Only