SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अध्यायः ] मनुस्मृतिः । १० ई 1 मस्ति । जिौष्ठे न हि स्पृश्यमानस्य रसास्वादनमवश्यंभावि । तत्र वैश्यपरिमाणात्कि - ञ्चिन्यूनताऽत्र विवक्षिता । जिह्वामूलं यावद्वेश्यस्य जिह्वाग्रं शूद्रस्य । द्रवत्वादुदकस्यापरिहार्योऽवध्यतिक्रम अवश्य प्राप्तौ त्वशुद्धिः । सर्वश्चायं तीर्थविभागो दक्षिणहस्तस्योपस्पर्शने हस्तस्यौचित्याद्दक्षिणाचारतायाश्च पुरुषधर्मतया विहितत्वात् । एवमर्थमेव चास्मिन्नवधाविदमुच्यते ॥ ६२ ॥ Acharya Shri Kailassagarsuri Gyanmandir उद्धृते दक्षिणे पाणावुपवीत्युच्यते द्विजः ॥ सव्ये प्राचीन आवीती निवीती कण्ठसज्जने ॥ ६३ ॥ 1 ननु च लोकतः सिद्धाः पदार्थ धर्मशास्त्रेऽप्याश्रीयन्ते न पदार्थसंविज्ञानार्थानि मन्वादिवाक्यानि व्याकरणाभिधानकाण्डस्मृतिवत् । उक्तमस्माभिर्यो नातिप्रसिद्धोऽर्थस्तं चेल्लक्षयन्ति किमुपालम्भमर्हन्ति अस्ति चात्र किंचित्प्रयोजनमन्यदपि । आचमनक्रममुच्य- १० मानमुपसंव्यानादिकमाचमनाङ्गं यथा विज्ञायते । यद्यप्युपवीतधारणं व्रतार्थतया पुरुषार्थतया वा सर्वदा प्राप्तं तथापि तेन विनाऽऽचमनं परिपूर्णमेव (न) स्यात् । असत्यस्मिन्वचने व्रते वैगुण्यं पुरुषदोषश्च स्यात् । अथ पुनरन्तरेणोपवीतमाचमनं कृतमप्यकृतसमं दोषश्च स्यादप्यशुचिना कृतमपां भक्षणमिति । कथं पुनः केवलस्योपवीतस्यैवाचमनाङ्गता यावताऽन्यदप्यत्र निर्विष्टं प्राचीनावीति च । उच्यते । प्राचीनावीतं स्वशब्देनैव पित्र्ये कर्मणि १५ विहितं तत्रार्थवत्तायामुपयातायां नाकृतार्थेनोपवीतेन विकल्पितुमर्हति । निवतिमप्यभिचारेऽर्थवत् । यद्यप्यत्र निवीतस्य विनियोगो नास्ति तथापि स्मृतीनां चैकार्थादन्यत्र यो विनियोगस्तेनेहाप्यर्थवत्ता भवत्येव । पाणिग्रहणं बाहूपलक्षणार्थमुद्धृतबाहुर्यतो लोक उपवीतीत्युच्यते । सार्वकालिकं चोपवीतं वक्ष्यामः । न च केवलपाणावुद्धृत उपवीती सव्ये उद्धृते प्राचीनावीती समासपदान्नामधेयम् । असमासस्तु वृत्तानुरोधितया । कण्ठसज्जने २० कण्ठे सज्जनं सङ्गस्थापनं यदा वस्त्रस्य सूत्रस्य वाऽन्यतरोपि बाहुरुद्भियते तदा निवती भवति ॥ ६३ ॥ मेखलामजिनं दण्डमुपवीतं कमण्डलुम् ॥ अप्सु प्रास्य विनष्टानि गृह्णीतान्यानि मन्त्रवत् ॥ ६४॥ १ फ-धारणं च । विनष्टानामप्सु प्रासनमन्येषां च ग्रहणमत्र विधीयते । प्रासनग्रहणयोः पौर्वापर्यं २५ यथाश्रुतमेवास्माच्च पुनरुपादानान्नैषामुपनयनाङ्गतैव । तदङ्गत्वे हि तत्प्रयोगापवर्गितैव स्यात् । किं तार्ह ? यावद्ब्रह्मचर्य धारणम् । अथ किमुपनयनकाल एव प्राक्कर्मनिष्पत्तेः दैवान्मानुषाद्वा प्रतिबलाद्विनष्टानां प्रतिपत्तिर्न संभवति प्रयोगसमात्यर्थे च पुनरुपादानं यथा For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy