________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता।
[द्वितीयः शौचेप्सुः । शुद्धिकाम इत्यर्थः । नान्यथा शुद्धो भवति । सर्वदा न प्रकरणाझोनन एव। किं तर्हि नेतरो विमूत्रादिशुद्धिप्वप्यपां भक्षणे कर्मत्वात्तृतीयानिर्देशो न भक्षमाणानामेवायं धर्मोऽपि तु कारणभूतानामपि पादाभ्युक्षणादौ । वयं तु ब्रूमो भक्षणेऽपि । करणमेवापो न हि तासामाचमनं संस्कारः । एकान्ते शुचौ देश एकान्तो हि जनैरनाकीर्णः प्रायेण शुचिर्भवति । प्रागुदङ्मुखः। मुखशब्दः प्रत्येकमभिसंबध्यते । “प्राङ्मुख उदङ्मुखो वा "। एवं हि गौतमेन पठितम् । विग्रहश्चैवं कर्तव्यः प्रागुदङ्मुखमस्येति । नायं द्वंद्वगर्भो बहुव्रीहिरपि तु बहुव्रीहिरेव । द्वंद्वगर्भतायां समाहारे समासान्तेनाकारेण भवितव्यमितरेतरयोगोऽपि नैव । न हि युगपदुभयदिङ्मुखता संभवति तत्र कश्चि
दाचमनभागः प्राङ्मुखेन कर्तव्यः कश्चिदुदङ्मुखेनेत्यापतति । न चैकदेश आचमनं न च १० दिगर्थ उपादेयो येन परस्परापेक्षे संबध्येयातां नापि दक्षिणपूर्वादिवत्प्रागुदक्शब्दोऽपरा
जिताया दिशो वाचकत्वेन प्रसिद्धो येन दिक्समासबहुव्रीहिर्जायते । तस्मान्नायं वृत्त्यन्तरगर्भो बहुव्रीहिः अतो विकल्पः । उदाहृतं च स्मृत्यन्तरे " प्राङ्मुख उदङ्मुखो वा शौचमारभेतेति " । यथा “ बृहद्रथन्तरसाम षडहे " इति केचिदहरहःसु बृहत् केषु
चिद्रथन्तरं न त्वेकस्मिन्नहनि समस्तोभयसामत्वम् ॥ ११ ॥ १५ उक्तमाचमनं तीर्थनापां भक्षणं परिमाणं तु नोक्तमतस्तदवधारणार्थमाह
हृद्राभिः पूयते विप्रः कण्ठगाभिस्तु भूमिपः ॥
वैश्योऽद्भिः प्राशिताभिस्तु शूद्रः स्पृष्टाभिरन्ततः ॥ ६२ ॥
हृदयं गच्छन्ति प्राप्नुवंति हृद्गाः । अन्येप्वपि दृश्यत' (व्या. सू. ६।२।१०१) इति गमेर्डः । — हृदयस्य हृदिति' ( व्या. स. ६।३।५० ) योगविभागाद्धृदादेशः । २० पूयते पवित्रतां प्राप्नोत्यशुचित्वं व्यावर्तते । स्पर्श ईषद्नचुलुकमात्रप्रमाणः । कण्ठगाभि
स्ताभिः । कण्ठमात्रव्यापिनीभिः भूमिपःक्षत्रियः भूमेराधिपत्यं क्षत्रियस्य विहितं तेन प्रसि. खून कर्मणा क्षत्रियनातिर्लक्ष्यते । आधिपत्यविवक्षायां राजधर्मेप्वेवावक्ष्यत् । वैश्यः प्राशिताभिरन्तरास्यप्रवेशिताभिः कण्ठमप्राप्ता अपि शुद्धिहेतवो वैश्यस्य । शूद्रः स्पृष्टाभिरन्तत अन्तेनेति । आद्यादित्वात्तृतीयार्थे तसिः (व्या. वार्तिके)। अन्तशब्दोऽयं समीप
वचनोऽस्त्यदकान्तं गत उदकसमीपमिति गम्यते । अस्त्यवयववचनो वस्त्रान्तो वसनान्त २५ इत्युभयत्रापि वर्तमानः संबन्ध्यन्तरमपेक्ष्यते । अस्य समीपं कस्य वाऽवयव इति । तत्रह
येन. स्थानेन वर्णान्तराणामाचमनं विहितं तीर्थेजिह्वोष्ठे न च तदन्तेनेति प्रतीयते । समीपवचनस्तु न संभाव्यः विधीयमानस्याचमनस्य तत्साध्यत्वासंभवात् स्पर्शेपि प्राशन
फ-एकान्ते । २ फ-अंते ।
For Private And Personal Use Only