________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः
. मनुस्मृतिः। अंगुष्ठमूलस्य तले ब्रामं तीर्थ प्रचक्षते ॥
कायमंगुलिमूलेऽग्रे दैवं पित्र्यं तयोरधः ॥ ५९॥ : अंगुष्ठस्य मूलमधोभागः । तस्य तलप्रदेशो ब्रामं तीर्थम् । हस्ताभ्यन्तरं तलमाह । महारेखांतमभिमुखमात्मनो ब्राझं हस्तमध्ये । अङ्गुलीनां मूले दण्डरेखाया ऊर्ध्व कायमग्रे अंगुलीनाम् । एवमुपसर्जनीभूतोऽपि मूले अंगुलिशब्दः सापेक्षत्वादग्रशब्दस्य संबध्यते । ५ पित्र्यं तयोरधः । अत्रापि गुणीभूतस्याङ्गुलीशब्दस्याङ्गुष्ठस्य च संबन्धः । प्रदेशिनी चात्राङ्गुलिर्विवक्षिता । तयोरध अन्तरं पित्र्यं स्मृत्यन्तरशिष्टप्रसिद्धिसामर्थ्यादेवं व्याख्यायते । यथा श्रुतान्वयासंभवात् । तथा च शंख:-"अङ्गुष्ठस्याधरतः प्रागग्रायाश्च रेखाया ब्राह्मं तीर्थ, प्रदेशिन्यङ्गुष्ठयोरन्तरा पित्र्यं, कनिष्ठान्तरलयोः कार्य पूर्वेणाग्रमङ्गुलीनां दैविकमिति " ॥ ५९॥
त्रिरायामेदपः पूर्व द्विः प्रमृज्यात्ततो मुखम् ॥
खानि चैव स्पृशेदद्भिरात्मानं शिर एव च ॥ ६० ॥ अन्यतमेन तीर्थेन त्रिरप उदकमाचामेदास्येन जठरं प्रवेशयेत् । तत उदकभक्षणान्तरं द्विरम्यासेन मुखमोष्ठद्वयं परिमृज्यात् । ओष्ठश्लिष्टानामुदकावयवानां सोदकेन हस्तेनापनयनं प्रमार्जनमत्र कुतः पुनर्हस्तेनेति समाचारात्तीर्थाधिकाराद्वा तीर्थे नैवाद्भिरिति १५ चोत्तरत्र श्रुतमत्राप्यपकृष्यते । दृष्टार्थत्वाच्च प्रमार्जनस्य मुखशब्द एकदेशे यथोक्ते वर्तते । खानि छिद्राणि चोपस्पृशेदद्भिहस्तगृहीताभिः स्पर्शनमेवोपस्पर्शनं मुखस्य च प्रकृतत्वान्मुख्यानामेव खानामेष स्पर्शनविधिः । गौतमश्वाह " खानि चोपस्पृशेच्छीपण्यानि" । आत्मानमिति हृदयं नाभिं वा निर्दिशति । उपनिषत्सु हि “अन्तर्हृदयमात्मानं पश्येदिति " कथ्यते । अतो हृदयस्यायं स्पर्शः क्षेत्रज्ञस्यात्मनो विभोः । अमूर्तस्य न २० स्पर्शसंभवः । ' नाभिमालभेतेति ' क्वचित्स्मयते तेन नाभिं मन्यामहे । शिरः प्रसिद्धम् । स्मृतीनां चैकार्थ्यादामणिबन्धात्पाणी प्रक्षाल्येत्येवमादि लभ्यते । तथा अशब्दकरणं वाड्मियमः पादाभ्युक्षणं महाभारते प्रक्षालनमपि पादयोर्दर्शितम् ॥ १० ॥
अनुष्णाभिरफेनाभिरद्भिस्तीर्थेन धर्मवित् ॥
शौचेप्सुः सर्वदाऽऽचामेदेकान्ते प्रागुदङ्मुखः ॥ ६१॥ २५ उप्णशब्दः क्वाथोपलक्षणार्थः । तथा हि पठ्यत 'अशृताभिरद्भिरिति' । एवं च । ग्रीष्मोप्मतप्ताः स्वभावोष्णाश्च न प्रतिषिध्यन्ते । फेनग्रहणं बुहृदानामपि प्रदर्शनार्थम् । पठितं च ' हीनाभिः फेनबुद्बुदैरिति'। तीर्थेन धर्मविदिति वृत्तपूरणमेव । शौचमाप्तुमिच्छु:
१ याज्ञवल्कीये आचारे २० श्लोके ।
For Private And Personal Use Only