SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेधातिथिभाष्यसमलंकृता । [द्वितीयः दतिमात्रता बोद्धव्या। यावदशितमन्नमुदरपूरं न करोति सम्यग्जीर्यति तावदशितव्यम् । त्रयः कुक्षेर्भागा अध्यधमन्नस्य भागार्धे पानस्य भागो दोषसंचाराय । अन्यथा नारोग्यं । न चोच्छिष्टः कचिद्रजेदतश्चोच्छिष्टमपनीय शुचित्वमापादिते तस्मिन्नेव देश आचान्तव्यम् ॥ ५६ ॥ अनारोग्यमनायुष्यमस्वयं चातिभोजनम् ।। अपुण्यं लोकविद्विष्टं तस्मात्तत्परिवर्जयेत् ॥ ५७ ॥ दृष्टमूलतानत्यशनप्रतिषेधस्याचष्टे । अनारोग्यं व्याध्युत्पत्तिज्वरोदरादिपीडा । विषचिकादिना जीवितनाश अनायुष्यं सत एवात्मानं गोपायेदिति शरीरपरिरक्षादि व्यतिक्रमादस्वयं नरकप्राप्तिः स्वर्गाभावेन प्रतिपद्यते । अपुण्यं दौर्भाग्यकरं लोकविद्विष्टं १० बहुभोनितया निन्द्यते । तस्मात्कारणादत्यशनं परिवर्जयेन कुर्यात् ॥ १७ ॥ ब्राह्मण विप्रस्तीर्थेन नित्यकालमुपस्पृशेत् ॥ कायत्रैदशिकाभ्यां वा न पित्र्येण कदाचन ॥ ५८ ॥ तीर्थशब्देन पवित्रमुदकाधिकरणमुच्यते । तारणाय पापप्रमोचनाय च तिष्ठतीति तीर्थम् । कचित्तु तरन्त्यनेनेति तीर्थमुदकावतरणमार्गः । इह तूदकाधारकरतलैकदेश उच्यते। १५ स्तुत्या वो तीर्थशब्दप्रयोगः। न हि तत्र नित्यस्था आपः तेनोपस्पृशेदाचामेत्। ब्राह्मणेत्येतदपि स्तुत्यर्थमेष । ब्रह्मा देवताऽस्येति । न हि तीर्थस्य देवता भवत्ययागरूपत्वादमन्त्रत्वाच्च । यागरूपतां च केनचिद्धर्मेण शुद्धिहेतुत्वादिनाऽध्यारोप्य देवतातद्धितः । नित्यकालं शौचार्थे कर्माङ्गे च । कः प्रजापतिःस देवताऽस्येति कायम् । एवं त्रिदशा देवता अस्येति त्रैदशिकम् । त्रिदशशब्दाद्देवताऽणिकृते स्वार्थे कः देवतात्वं च पूर्ववत् । एभिस्तीर्थरुपस्टशेत् । विप्रग्रहणमविवक्षितम् । यतः क्षत्रियादीनां विशेषं वक्ष्यति । न चासत्यां सामान्यतः प्राप्तौ विशेषविधानमुपपद्यते । ' कण्ठगाभिस्तु भूमिप ' इत्यादि । न पियेण पितृदेवत्येन कदाचिदपि स्फोटपिटकादिना ब्राह्मादितीर्थप्वयोग्यतामायातेष्वपि । ननु चाविधानवदेव पित्र्यस्याप्राप्तिः। अस्त्यत्राशंका । पितृतीर्थज्ञापनार्थ तावत्पित्र्यं तयोरित्यवश्यं वक्तव्यम्। न च तस्येह कार्य निर्दिश्यते कार्याकांक्षाय प्रकृतत्वात्तेन कार्येण २५ संबन्ध आशंक्येत । अद्य पुनः प्रतिषेधे सति पित्र्यमिति समाख्ययैव कार्यावगतिरुदकतर्प णादि पितृकर्म एतेन तीर्थेन कर्तव्यम् । एवं स्तुतिरन्वयिनी भवति । श्रुतिनोदितत्वाच्च ब्राह्मादीनां तदभावे प्राप्ताशंकानिवृत्त्यर्थं युक्तमस्याभिधानम् ॥ ५८ ॥ २० १ अ-क-ड-फ-क्ष- नारायणाय । २ अ-क-ड-क्ष-घ-च । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy