________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०
भण्यायः ]
मनुस्मृतिः। पूना । अथवा प्राणार्थत्वेन भावनं ध्यानं 'यजन्मम तदर्थत्वं संपूजयति मां सदेति । नमस्कारादिना वा प्रणम्य ग्रहणं पूजा । अद्याञ्चैतदकुत्सयन् । कदन्नतया दुःसंस्कारोपग्रहणेन वा कुत्साहेतुसंभवे नान्नं कुत्सयेत् । किमिदमश्यते । अरुचिकरं धातुवैषम्यजनकमित्येवमादिनाऽभिधानेन नाक्षिपेत् । यदि तु तद्रूपं भवति तदा नाद्यान्न कुत्सयन्नद्यात् । दृष्ट्रव हृष्येत् । पुत्रख्यादिसंदर्शनेन चिरप्रवासप्रत्यागत इव तुष्येत प्रीयेत । प्रसीदेच्च ५ निमित्तान्तरजमपि कालुप्यमन्नदर्शनेन हित्वा मनःप्रसादमाश्रयेत् । प्रतिनन्देच्च समृद्ध्या शंसनं प्रतिनन्दनम् । ' नित्ययुक्ता एते न स्याम' इत्यादरोपदर्शनमभिनंदनम् । सर्वशः सर्वदा । ' अन्यतरस्यामिति ' व्यवस्थितविभाषाविज्ञानात्सप्तम्यर्थे शस् कर्तव्यः । सर्वदेति वा पठितव्यम् ॥ ५४ ॥
पूजितं ह्यशनं नित्यं बलमूर्ज च यच्छति ॥
अपूजितं तु तद्भुक्तमुभयं नाशयेदिदम् ॥ ५५ ॥ पूर्वविधिशेपेोऽयमर्थ पादो न तु फलविधिः । फलविधो हि काम्योऽयं विधिः स्यादुर्जकामस्य बलकामस्य च । ततश्च नित्यशब्दो नोपपद्येत पूजितं ह्यशनं नित्यमिति अतोऽयं यावज्जीविकः प्राङ्मुखता नियाः । अपूजितं भुक्तं ह्युभयं नाशयेद्बलमूर्ज च । बलं सामर्थ्यमनायासेन भारोद्यमनादिशक्तता । कृशस्याप्यूर्ज महाप्राणता अङ्गोपचयः महा- १५ कायो महाबलश्च भवति ॥ ५५ ॥
नोच्छिष्टं कस्यचिद्दद्यानाद्यादेतत्तथान्तरा ॥
न चैवात्यशनं कुर्यान्न चोच्छिष्टः कचिहजेत् ॥ ५६ ॥ पात्रीस्थमन्नमास्यस्पर्शदूषितमुच्छिष्टमुच्यते । तन्न कस्यचिद्दद्यादनेनैव सिद्धे स्नातकव्रतेषु यः शूविषयः प्रतिषेधः स तत्रैव निरूपयिष्यते चतुर्थ्यां प्राप्तायां षष्ठी २० संबन्धमात्रनिषेधार्था येऽपि दत्तमिदमस्मभ्यमिति न विदुस्तेषामपि भोननाय प्रकल्पं श्वविडालादीनाम् । न ह्यत्र ददात्यर्थः परिपूर्णस्वत्वनिवृत्तिमात्रं दातुः, परस्य सत्वापत्तिर्नास्ति । अन्तराशब्दो मध्यवचनः । द्वौ भोजनकालौ सायं प्रातश्च ततोऽन्यस्मिन्काले न भुञ्जीत । अथवा व्यवधाने अन्तराशब्दः । त्यक्तभोननव्यापारः क्रियान्तरेण व्यवधाय पुनस्तदेव प्राक्पात्रगृहीतं न भुजीत । स्मृत्यन्तरे तु विशेषः पठ्यते । उत्थानाचमनव्यापेतमिति । २५ केचित्तु विच्छेदमन्तरमाचक्षते । सव्येन पाणिना पात्रमन्वालम्य दक्षिणेनावदाय प्राणायास्ये जुहोतीति श्रूयते । तत्र यः सव्येन पात्रम्यानुग्रहस्तदनन्तरं न चैवात्यशनमतिमात्रमशनं कुर्यात् । एतच्चानारोग्यकारणं गुरुविरुद्धादीनां प्रदर्शनार्थ हेतूपदेशान्मात्राशितायाश्चायुर्वेदा
१ " बह्वल्पार्थाच्छस्कारकादन्यतरस्याम् ” ( व्या. सू. ५।२.) २ अ-ब-क-ड-फ-क्ष-प्राङ्. मुखतावनियमः । ३ फ-न.द्याच्चैव तथांतरा । । ड-तद्विषयः। ५फ-नान्तराशब्दः ।
For Private And Personal Use Only