SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ९८ मेधातिथिभाष्यसमलंकृता । [ द्वितीयः 1 श्येति । स च परस्ताद्विधायिष्यते । सामानाधिकरण्यं चानयोर्दृश्यते नित्यकालमुपस्पृशेदित्यभिधाय त्रिराचामेदित्याह । अतः समानार्थ उक्तेऽप्याचम्येति भोजनार्थतयाऽऽचमने पुनर्वचनमानन्तर्यार्थमनन्तरमेव भुञ्जीत न व्यापारान्तरेण व्यवदधीत । तथा च भगवान्व्यासः । पञ्चार्द्रा भुञ्जते नित्यं तेषु वत्स्याम्यहं हरे " ॥ श्रीः किलैवमाह । द्वौ हस्तौ द्वौ च पादावास्यं च एषा पंचार्द्रता या चोपस्पर्शनानन्तरं भुञ्जानस्य भवति न विलम्बमानस्य । इहापि वक्ष्यत्यार्द्रपादस्तु भुञ्जीतेति स्नातकव्रतेषु तस्यापानरुक्त्यं च वक्ष्यामः । नित्यग्रहणं प्रकरणाद्ब्रह्मचारीधर्मभोजनता मा विज्ञायि भोजनमात्रधर्मो यथा स्यादुपदेशत एव । अत्र द्विजग्रहणं भोक्तृमात्रधर्मार्थ चाहुः नित्यग्रहणं चानुवादं न ते सम्यङ्मन्यन्ते । यदि द्विजशब्दः प्रकृते ब्रह्मचारिणि न समाविशेत्तदा स्यादपि । यदा तु तस्याप्येतदभिधानं १० तदा नान्तरेण नित्यग्रहणं प्रकरणबाधोपलभ्यते । समाहितः भुज्यमानं द्रव्यं स्वात्मशक्तिं चावेक्षमाणः । अन्यचेतस्कस्य हि गुरुविरुद्धवादादिवर्जनं सात्म्य भोजनं च न स्यात् । भुक्त्वा चोपस्पृशेत् स्नेहादिलेपापनयनं द्रव्यशुद्धावुक्तम् । कृते तस्मिन्भुक्तवत इदमाचमनं विधीयते । ५ www.kobatirth.org (6 Acharya Shri Kailassagarsuri Gyanmandir 1 1 अत्र केचिन्मन्यन्ते शुद्ध्यर्थमेकमाचमनं सुबा क्षुत्वा च भुक्त्वा चेति । अने१५ नादृष्टार्थं द्वितीयं कर्तव्यम् । एवं च पठ्यते " आचान्तः पुनराचमेदिति ” । एतत्पञ्चमे स्थापयिष्यामः । सम्यगिति वैधतामाचमनपदार्थस्यानुवदति । ' यादृशो विधिरुक्तस्तं सर्वमनुतिष्ठेत्' । अद्भिः खानि च संस्पृशेत् । खानि छिद्राणि शीर्षण्यानि । न चैतदुक्तमेव खानि चैव स्पृशेदद्भिरिति । आत्मशिरसोर्व्यावृत्त्यर्थमिति केचित् । यदा शुचिः सन्नभोजनार्थतयैवाचामति । येषां च भोजनोत्तरकालमेकं शुद्ध्यर्थमाचमनमपरम२० दृष्टार्थे तत्रादृष्टार्थ आत्मशिरसी न स्पृश्येते शुद्ध्यर्थं तु तादृशमुत्पन्नं तस्य संपूर्णाङ्गस्य प्रयोगो वक्ष्यते (६१ श्लो.) “ शौचेप्सुः सर्वदाऽऽचामेदिति” । यदि वा विधिप्रत्यभिज्ञानार्थे शास्त्रीयमेतदाचमनं न लौकिकमिति ज्ञातङ्गविशेषसंबन्धस्य तदङ्गिनिर्देशे तदेवेदमिति प्रत्यभिज्ञानसिद्धिः । अतश्च यत्राचामेदिति श्रुतं तत्र न यस्य कस्यचिद्रव्यस्य भक्षणमात्रं प्रतीयते किं तर्हि शास्त्रीयस्य संस्कारस्य सपरिकरस्येति यदुक्तं तद्दर्शितं २५ भवति ॥ ५३ ॥ पूजयेदशनं नित्यमद्याचैतदकुत्सयन् ॥ दृष्ट्वा हृष्येत् प्रसीदेच्च प्रतिनन्देच्च सर्वशः ॥ ५४ ॥ I अश्यत इत्यशनं भक्तसक्तपूपाद्युच्यते । तदशनार्थमानीतं देवतारूपेण पश्येत् । एषा वै परमा देवता यदन्नम् । तस्य सर्वेषां भूतानां स्रष्टृत्वेन स्थितिहेतुतया च यद्दर्शनं साऽस्य १ फ- स्वात्म । २ फ-मानांग । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy