________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ।
मनुस्मृतिः। प्राच्यां नित्यं काम्यं च । आयुष्कामः फलमभिसंदधीत । इतरस्तु न तथेति । यथा नित्यमग्निहोत्रम् । स्वर्गकामस्य चासकृत्प्रयोगात्तन्त्रेण फलकामस्य नित्योऽप्यधिकारो निर्वर्तते । एवं यशःकामो दक्षिणामुखः । इमे काम्या एव विधयः । श्रियमिच्छन् । श्रियन् क्यजन्ताच्छता कृतः । श्रियै हितं वा श्रियमिति मकारान्तः पाठः । आयुष्यादिवत् । प्राण्यङ्गत्वात्स्वार्थे भुनिर्वर्तते । तथा कृतं भुक्तं इति । श्रियं भोजनात्प्राप्नोतीति । तथा च ५ द्वितीयान्तः पाठः श्रियमिति । तादर्थे वा चतुर्थी 'श्रियै प्रत्यगिति' । ऋतं सत्यं यज्ञश्च तत्फलं वा स्वर्गः । स्वर्गकाम उदङ्मुखो भुञ्जीत । अन्तरेणापि विधिप्रत्ययमप्राप्तत्वाद्विध्यर्थावगतिः पञ्चमलकारादिकल्पनया । एवमेतद्दिग्विभागेन भोजनं फलविशेषार्थम् ।
___ विदिग्भोजनं त्वर्थप्राप्तं नित्येन प्राङ्मुखतानियमेनोपोद्यते । अयं च काम्यो १० विधिर्न ब्रह्मचारिण एव । भैक्ष्यभोजनविषयोऽपि तु गृहस्थादीनामपि भोजनमात्राश्रितः । तथा चाश्नीयादिति प्रकृते भुंक्त इत्याख्यातान्तरनिर्देशो लिङ्गम् । इतरथाऽश्नीयादिति यतो निःसंदिग्धा प्रकृतविषयता प्रतीयते तदेव निरदेक्ष्यत् । भुंक्त इति तु निर्देशे किं प्रकृत एवार्थः शब्दान्तरेण निर्दिष्ट उत शब्दार्थतया भोजनमात्रमिति संदेहे आख्यातावृत्तावान्तरावगतिर्न प्रकृतप्रत्यभिज्ञानमेव ।
यत्तु विधिप्रत्ययाभावादर्थवाद एवायं पूर्वशेष इति चोक्तः परिहारः वचनानि त्वपूर्वत्वादिति । न च पूर्वेकवाक्यताहेतुर्विभज्यमानसाकांक्षत्वादिरस्ति । यद्यप्युत्तरेषां
चैतदवरोधीत्यनेनातिदेशेन ब्रह्मचारिधर्मोऽपि पुरुषमात्रविषयः स्यात्फलं तु न स्यात् । गुणकामनायां हि नातिदेशात्प्रवृत्तिमनुमन्यते। 'गोदोहनेन पशुकामस्य प्रणयेत् । ' खादिरं वीर्यकामस्येति ' । विकृतिषु नेप्यते कैश्चित् ॥ ५२ ॥
उपस्पृश्य द्विजो नित्यमन्नमद्यात्समाहितः॥
भुक्त्वा चोपस्पृशेत्सम्यगद्भिः खानि च संस्पृशेत् ॥ ५३ ॥ आचमनोपस्पृशतिशब्दौ समानार्थी शुद्धयर्थसंस्कारविशेषवचनौ शिष्टव्यवहारादवगम्यते । यद्युपस्पृशतिरर्थान्तरे पठितश्चर्मुरप्यदनमात्रे तथापि विशेष एव सोपसर्गयोः प्रयोगदर्शनात्तदर्थतैव प्रतीयते । स्पृशेः सामान्यविषयत्वेऽपि प्रयोगो नियामकः । गडि- २५ वदनैकदेशे पठ्यते । स च कपोल एव गण्ड इति प्रयुज्यते । नैकदेशान्तरे । 'पुष्यसिद्धचौ ' ( व्या. सू. ३।१।१६ ) नक्षत्रमात्रे पठ्येते विशेषे च वर्तते । धाय्याशब्दः सामिधेनीमात्रे पठ्यते । आवापिकीषु च वर्तते । अतोऽप एवाचम्येत्यर्थः । स एवोपस्पृ.
१फ-निवर्तते । २ उ-शतंभुंक्त-फ-यथार्थ भुंक्ते । ३ फ-उपपद्यते। । फ-बमि ।
For Private And Personal Use Only