________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिमाष्यसमलंकृता । ] द्वितीयः न प्रत्ययसामर्थ्यात्प्रकरणं बाधित्वा वृत्त्यर्थ एव भैक्ष्य उपनीयमानस्य तदङ्गं यद्भक्ष यच्चाहरहवृत्त्यथै तत्र सर्वत्रायं धर्मः ॥ ४९॥
मातरं वा स्वसारं वा मातुर्वा भगिनी निजाम् ॥ भिक्षेत भिक्षां प्रथमं या चैनं नावानयेत् ॥ ५० ॥
मात्रादयः शब्दाः प्रसिद्धार्थाः निजा सोदर्या या चैनं न विमानयेत् । विमानना अवज्ञानम् । न दीयत इति प्रत्याख्यानम् । तथा च गृह्यम् । · अप्रत्याख्यायिनमग्रे भिक्षेताप्रत्याख्यायिनीं वेति । तदेव हि मुख्यं प्राथम्यं यदुपनीयमानस्य । अहरहस्तु न विमाननाभयमाश्रयणीयम् ॥ ५० ॥
समाहृत्य तु तद्भक्षं यावदर्थममायया ॥ निवेद्य गुरवेऽश्नीयादाचम्य प्राङ्मुखः शुचिः॥५१॥
समाहृत्यति शब्दो बह्वीभ्य आहरणं दर्शयति । नैकस्याः सकाशात् बायो ग्रहीतव्याः। तदिति यस्यानन्तरं शब्दसंनिधिर्वृत्त्यर्थस्य न प्राकरणिकस्योपनयनाङ्गस्य । तस्य हि गृह्यकारैः " अनुप्रवचनीयं अपयेदिति " विहितं न भोजनं
तिष्ठेदहःशेषमिति च कृतप्रातराशस्य चोपनयनम् । अतो नोपनयनांगं भैक्षभोजनम् । १५ यावदर्थ यावता मैक्ष्येण तृप्ताख्यप्रयोजननिवृत्तिः न बहु भिक्षितव्यम् । अमायया
निवेद्य गुरवे न कदन्नेन संस्कृतमन्नं प्रच्छाद्य कदन्नं गुरोः प्रकाशयेत् । तदन्नं किल एष न ग्रहीष्यतीत्यनया बुद्ध्या निवेदनम् ' इदं प्राप्तमिति ' प्रकटीकरणम् । अगृहीते गुरुणा अनुज्ञातो अश्नीयात् । कथं पुननिवेदनमदृष्टसंस्कारार्थमेव न भवतीतिहास
प्रामाण्यात् । तथा च भगवान्व्यासः । स्त्रितकूपाख्याने ' गुरुणा गृहीतमिति ' दर्शित२० वान् । ' अनुज्ञातो भुञ्जीतेति । यत्क्वचिच्छ्रयते । आचम्य प्राङ्मुखः आचमने प्राङ्
मुखतेयमानन्तर्यादिति केचित्तदयुक्तम् । 'प्रागुदङ्मुख' इत्याचमने दिड्डियमो भविष्यति तस्माद्भोजनेनैव संबन्धः । शुचिः । चाण्डालादिदर्शनमशुचि । देशाक्रमनिष्ठीवनादि कृताचमनस्य भोजनकालेऽनेन निषिध्यते ॥ ५१ ॥
आयुष्यं प्राङ्मुखो भुंक्ते यशस्यं दक्षिणामुखः ॥ २५ श्रियं प्रत्यङ्मुखो भुंक्ते ऋतं भुंक्ते ह्युदङ्मुखः ॥ ५२ ॥
निष्कामस्य प्राङ्मुखस्य भोजनं विहितं नित्यतया । इदानी काम्या विषय उच्यन्ते । आयुषे हितं आयुष्यं प्राङ्मुखो भुंक्त इति । यदि तद्भोजनादायुः प्राप्यते तत आयुष्यं तद्भवति तेनायमर्थः संपद्यते । आयुष्कामः प्राङ्मुखो मुके । अधिकारद्वयं
१ फ-यावदन्नम् । ड-फ-क्ष-नाश्नीयात् ।
For Private And Personal Use Only