________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः
मनुस्मृतिः। कराः । नैतैः कश्चिदुद्वेजयितव्यः श्वा वा मनुष्यो वा नृणामिति प्रदर्शनार्थम् । सत्वच अतष्टाः । अनग्निदूषिताः वैद्युतेन दावोत्थेन वाऽस्पृष्टाः ॥ ४७ ॥
प्रतिगृह्येप्सितं दण्डमुपस्थाय च भास्करम् ॥
प्रदक्षिणं परीत्याग्निं चरे क्षं यथाविधि ॥४८॥ प्रावृतेषु चर्मसु मेखलाबन्धनं कर्तव्यम् । आबध्य मेखलामुपनयनं कर्तव्यम् । ५ कृते चोपवीते दण्डग्रहणं दण्डं गृहीत्वा भास्कर आदित्य उपस्थेयः । अभिमुखं स्थित्वा ऽऽदित्यदैवतैरभिधानमादित्यस्य कर्तव्यम् । गृह्यान्मन्त्रावगमः । अन्या चेतिकर्तव्यता तत एव । यत्सर्वसाधारणं तदिहोच्यते ।
प्रदक्षिणं परीत्य सर्वतो गत्वाऽग्निम् । चरेत्कुर्यात् भैक्षं भिक्षाणाम् समूहो भैक्षम् तच्चरेद्याचेत । यथाविधीति वक्ष्यमाणविध्यनुवादः । भिक्षाशब्देन स्वल्पपरिमाणं १० भक्ताद्युच्यते ।। ४८ ॥
भवत्पूर्व चरे क्षमुपनीतो द्विजोत्तमः ॥ ___ भवन्मध्यं तु राजन्यो वैश्यस्तु भवदुत्तरम् ॥ ४९ ॥
भिक्षा प्रार्थनावाक्यमत्र भैसंशब्देनोच्यते । तस्य हि भवच्छब्दपूर्वता सम्भवति । न भक्तादेरर्थस्य । स्त्रीणां च प्रथमं भिक्ष्यमाणतयोपदेशात्प्रार्थनायां च प्रार्थ्यमानस्य १५ संबोध्यत्वात्संबुद्धिविभक्त्यन्तः स्त्रीलिङ्गो भवच्छब्दः प्रयोक्तव्यः । क्रम एव चात्रादृष्ठाऽर्थो नियम्यते । यथार्थ तु शब्दप्रयोगो भवति । भिक्षां देहीति'।
कुतः पुनः संस्कृतशब्दार्थलाभः यावता स्त्रियः संबोध्यन्ते ताश्च संस्कृतं नावबुद्ध्यन्ते । नित्यमुपनयनं तस्य च शब्दोच्चारणमङ्गत्वेनोक्तमिति अनित्यांश्चापभ्रंशाः न तैर्नित्यस्य संयोग उपपद्यते । तथैव च शिष्टा असाधूंनुपश्रुत्यैकदेशसादृश्येन साधनसं- २० स्मृत्यार्थ प्रतियन्त्यसाधुरनुमानेन वाचक इति दर्शनेन गाशब्दो हि सादृश्याद्गोशब्दमनुमापयति । ततोऽर्थप्रतिपत्तेः । एवं स्त्रियः सादृश्योत्साधुभ्यः असाधूनुत्पन्नसंबन्धात्स्मृत्वा तेभ्योऽर्थे प्रत्येष्यन्ति । स्वल्पाक्षरं चैतत्पदत्रयं सर्ववप्रसिद्धं स्त्रीभिरपि सुज्ञानम् । एवं भवन्मध्यं क्षत्रियः 'भिक्षां भवति देहीति ' तथा वैश्यो भवच्छब्द उत्तरमस्येति । भवदुत्तरं वाक्यं समासार्थः ।
उपनीत इति भूतप्रत्ययनिर्देशादान्वहिकेऽपि वृत्त्यर्थे भैक्ष्यचरणेऽयमेव विधिरिति दर्शयति । एष प्रोक्तो हि द्विजातीनामौपनायनिक इत्यत्रोपनयनप्रकरणमुपसंहरन्नुपनयनांगस्यापि भैक्ष्यस्यायमेव विधिरित्याह । अन्यथाकरणादुपनयनांगमेवैतत्स्याद्यदि वा
१ ड-क्ष-फ-भक्ष्यशब्देन । २फ-भक्तादेरन्नस्य । ३ फ-क्ष-नित्याश्च । उ-त्याज्याच। ४ फ-असाधुरूपश्रित्य । ५ फ-असाधुभ्यः साधूनुत्पन्नसंबंधात् ।
For Private And Personal Use Only