SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेधातिथिमाष्यसमलंकृता । [द्वितीयः चर्यते तत्रेष्टिपशुसोमानां यज्ञरूपतयैकत्वादेकतन्तुकं क्रियते । अग्नित्रयसाध्यत्वादहीनैकाहसत्रभेदाद्वा त्रितन्तुकं सोमसंस्थानां सप्तसंख्यत्वात्सप्त वा तन्तवः । “ त्रीणि सवनानि त्रिसंध्येनेति " पञ्चसूत्राभावेऽपि पटादिनाऽपि कर्तव्यम् । स्मृत्यन्तर एवमुक्तम् । अविको मेषस्तस्य सूत्रं तेन कृतं आविकसूत्रिकम् । अध्यात्मादित्वाञ् ५ कर्तव्यः । 'अविकसूत्रिकमिति' वा पठितव्यम् । तत्र च मत्वर्थीयेन ठना रूपसिद्धिः॥४४॥ ब्राह्मणो बैल्वपालाशौ क्षत्रियो वाटखादिरौ ॥ पैलवौदुम्बरौ वैश्यो दण्डानहन्ति धर्मतः ॥ ४५ ॥ सत्यपि द्वन्द्वनिर्देशे गुणविधिष्वेकत्वश्रवणात्केशान्तक इति 'प्रतिगृह्येप्सितं दण्डम्' इति च विकल्पितम् एकदण्डधारणं प्रतीयते। “वैल्वः पालाशो ब्राह्मणस्य दण्ड" इति १० गृह्ये । गौतमीये चैकदण्डग्रहणमेवोक्तम् । इह केवला दण्डसत्ता श्रूयते । दण्डानहन्ति दण्डा एते ब्रह्मचारिणां योग्याः । कस्यां क्रियायां इत्येतदत्र चोक्तं उत्तरत्र भविष्यति 'प्रतिगृह्येप्सितमिति' । तस्मिंश्च ग्रहणे दण्डस्योपायत्वाद्विवक्षितमेकत्वमत इह द्विवचननिर्देशः । देवश्चेद्वर्षेद्बहवः कृषि कुर्युरिति यथा प्राप्तानुवादः । बिल्वपलाशवटखदिर पीलूदुम्बरवृक्षजातिविशेषनामधेयानि । बिल्वस्य विकारोऽवयवो वा बैल्वः । एवं सर्वत्र १५ प्रदर्शनार्थाश्चैते । यज्ञिया वा सर्वेषामिति वचनात् । एतान्दण्डान्वक्ष्यमाणे कार्य अर्हन्ति । धर्मतः शास्त्रतः ॥ ४५ ॥ केशान्तिको ब्राह्मणस्य दण्डः कार्यः प्रमाणतः ॥ ललाटसंमितो राज्ञः स्यात्तु नासान्तिको विशः ॥ ४६॥ आकारविशेषवचनो दण्डशब्दः । दीर्घ. काण्डसम्मितायाम दण्ड इत्युच्यते । कियत्तस्य दैर्ध्यमित्यपेक्षायामाह । केशान्तं गच्छति प्राप्नोति केशान्तगो मूर्द्धप्रमाणः । पादायादारभ्य मूर्द्धावधिः केशान्तगः । केशा वाऽन्तोऽस्येति केशान्तकः । समासान्तः ककारः । प्रमाणतः प्रमाणेनानेन युक्तो दण्डः कार्यः कारयितव्यः । ब्राह्मणस्याचार्येण। ललाटसंमितः ललाटान्तमितः ललाटान्तप्रमाणः । ललाटमात्रे चतुरङ्गुलेन मीयमानस्य दण्डशब्दवाच्यत्वाभावादेवं व्याख्यायते पादाग्रादारभ्य यावल्ललाटान्तं प्राप्तः । एवं विशो वैश्यस्य नासान्तग इति ॥ ४६॥ ऋजवस्ते तु सर्वे स्युरव्रणाः सौम्यदर्शनाः ॥ अनुद्वेगकरा नृणां सत्वचोऽनग्निदूषिताः ॥४७॥ ऋजवः अवक्राः । सर्वे इत्यनुवादः । प्रकृतत्वाविशेषात् । अव्रणा अच्छिद्राः । सौम्यं प्रियंकर दर्शनमेषां ते सौम्यदर्शनाः वर्णपरिशुद्धाः । अकण्टकिताश्च अनुद्वेग१३-स-ठक्कर्तव्यः । २ अग्रे ४६ श्लोकः । ३ अप्रे ४४ श्लोकः । १५ ऋजन For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy