________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः
मनुस्मृतिः। क्षत्रियस्य पुना धनुर्गुणः । सा कदाचिचर्ममयी भवति, कदाचित्तृणमयी मङ्गोमादिरज्जुर्वा । तदर्थमाह । मौर्वीति । तया धनुषोऽवतारितया श्रोणीबन्धः कर्तव्यः । यद्यपि त्रिवृत्तादिर्गुणो मेखलामात्राश्रितो मौझ्या एव तथाऽपि ज्यायाः स्वरूपनाशप्रसंगान भवति ।
शणतन्तुविकारः शणतान्तवी । छान्दसत्वादुत्तरपदवृद्धिः । अथवा केवलात्तन्तु- ५ शब्दात्तद्धिते कृते तदन्तस्य शणैः संबन्धः । शणानां तान्तवीति विकृतेर्विकारः शणतान्तवी प्रकृतिसंबन्धितया व्यपदिश्यते । ' गव्यं घृतं । 'देवदत्तस्य पौत्र' इति । तंतुः सूत्रं शणमौजीवत्कर्तव्या । गृह्यकारैर्वैश्यमेखलायाः त्रिवृत्तादिधर्मः सुस्पष्ट एवोक्तः ॥ ४२॥
मुञ्जालाभे तु कर्तव्याः कुशाश्मन्तकबल्वजैः॥
त्रिवृत्तो ग्रन्थिनैकेन त्रिभिः पञ्चभिरेव वा ॥ ४३ ॥ आदिशब्दलोपमत्र स्मरन्ति । मुञ्जाद्यलाभ इति । कर्तव्या इति च बहुवचनमुपपन्नतरं भिन्नजातिसंबन्धितया सुव्यक्तो मेखलाभेदः । एकजातिसंबन्धित्वे तु केवलव्यक्तिभेदालम्बनं बहुवचनं स्यात् । विप्रस्येति च प्रकृतस्य बहुवचनेन परिणामः कर्तव्यः। विकल्पश्चैकविषयत्वे स्यात् । न च संभवत्यां गतौ विकल्पो युक्तः । तेन मुञ्जाभावे १५ कौशी । ज्याया अभावेऽश्मन्तकेन । शाणानां बल्वजैः । तृणौषधिवचनात्कुशादयः । प्रतिनिधिनियमश्वायम् । कुशाद्यभावेऽप्यन्यन्मुञ्जादिसदृशमुपादेयं त्रिवृत्ता ग्रन्थिनैकेन । नायं ग्रन्थिसंख्याभेदो वर्णभेदेन । अपि तु प्रत्येकं विकल्पः । कुशादिमेखलास्वप्ययं प्रन्थिभेदो धर्मभेदश्चोद्यमानः स्मृत्यन्तरसमाचारस्यानित्यत्वेऽपि द्रष्टव्यः ॥ ४३ ॥ कार्पासमुपवीतं स्याद्विपस्योवृतं त्रिवृत् ॥
२० __ शणसूत्रमयं राज्ञो वैश्यस्याविकसौत्रिकम् ॥ ४४ ॥
उपवीतशब्देन वासो विन्यासविशेष उच्यते । वक्ष्यति “ उद्धृते दाक्षिणे पाणाविति" । तच्च धर्ममात्रं तस्य न कार्पासता संभवत्यतो धर्मेण धर्मी लक्ष्यते । यस्यासौ विन्यासस्तत्कार्पासमुच्यते । अर्श आदित्वाद्वा मत्वर्थीयोऽकारः कर्तव्यः । उपवीतवदुपवीतमिति । ऊर्ध्ववृत्तं ऊवी दिशं प्रतिवर्त्यते वेष्टयते । त्रिवृत् त्रिगुणं २५ कर्तनिकाम्यो लब्धसूत्रभावस्य त्रिगुणीकृतवेदमूर्धनि वर्तनं विधीयते । संहत्य तन्तुत्रयम् । उध्र्ववेष्टनेन रज्ज्वाकारं कृत्वा तेनोपवीतं कुर्यात् । सा च रज्जुरेकैव धारयितव्या। तिस्रः पञ्च सप्त वा। यज्ञसंबन्धाद्धि तद्यज्ञोपवीताख्यं लभते । यज्ञार्थोऽयमुद्यत इति भक्त्योप
१ ड-क्ष-भुजाभावे । २ क-फ-ख-ड-क्ष-त्रिवृता । ३ फ-कोश्या । • अस्मिन्नेवाध्याये ६३ श्लोके । ५ व्या. सू. (५।२।१२७) । ६ उ-क्ष-वर्दनम् ।
For Private And Personal Use Only