________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः। प्रतिप्रसवार्थमिदमारम्यते यावत्षोडशं वर्ष गर्भादारभ्य तावब्राह्मणस्योपनयनार्हता न निवर्तते । सावित्रीशब्देन तदनुवचनसाधनमुपनयनाख्यं कर्म लक्ष्यते । नातिवर्तते नातिक्रान्तकालं भवतीत्यर्थः । एवमा द्वाविंशात्क्षत्रबन्धोः क्षत्रियजातीयस्येत्यर्थः। बन्धुशब्दोऽयं क्वचित्कुत्सायां प्रवर्तते । यत्स्वं कथं चेच्छ ब्रह्मबन्धाविति ज्ञातिवचनः । यथा “ ग्रामता जनता चैव बन्धुता च सहायता । महेंद्रस्याप्यगम्याऽसौ ५ भूमिभागभुजां कुतः॥" द्रव्यवचनो " जात्यन्ताच्छ बन्धुनीति " (व्या. सू. १।४।९)। तत्र पूर्वयोरर्थयोरसंभवात्तृतीयोऽर्थो गृह्यते । द्वाविंशतः पूरणो द्वाविंशोऽब्दः तद्धितार्थः । आ चतुर्विंशतेर्विशः प्राप्तोऽप्यत्र पूरणप्रत्ययो वृत्तानुरोधान्न कृतः प्रतीयते तु तदर्थः । न हि समुदायविषयायाश्चतुर्विंशतिसंख्याया अवधित्वेन संभवः तदवयवस्तु चतुर्विशो भवति संवत्सरोऽवधिः । आङमभिविधौ व्याचक्षते । लिङ्गदर्शनं चोदाहरन्ति । " गायत्र्या १० ब्राह्मणमुपनयीत, त्रिष्टुमा राजन्यम् , जगत्या वैश्यम् " इति । एतेषां च छंदसामियता कालेन द्वौ पादौ पूर्यते । तावन्तं कालं बलवन्ति न त्यजन्ति स्वाश्रयभूतान्वर्णान् । तृतीये तु पादेऽपक्रान्ते गतरसान्यतिवयांसि न्यूनसामर्थ्यानि भवन्ति समाप्तिमुपयान्ति । यथा " पञ्चाशता स्थविरो मनुष्यः” इत्यतश्च नैतेन वयमुपासितानीति त्यजन्ति तं वर्ण ततो 'न गायत्रो ब्राह्मणो, न त्रैष्टुभो राजन्यो, न जागतो वैश्य' इति । सविता देवता यस्या १५ ऋचः सा सवित्री; सा च गायत्री द्रष्टव्या । प्रदर्शिता गृह्याच्च । एवं क्षत्रियस्य त्रिष्टुप् सावित्री — आकृष्णेनेति ' । वैश्यस्य जगती “ विश्वा रूपाणीति " ॥ ३८ ॥
____ अत ऊर्ध्वं त्रयोऽप्येते यथाकालमसंस्कृताः ॥
सावित्रीपतिता व्रात्या भवन्त्यार्यविगर्हिताः॥ ३९ ॥ अस्मात्कालादूर्ध्वं परेण त्रयोऽप्येते वर्णाः ब्राह्मणादयो यथाकालं यस्योपनयन- २० कालः तत्रानुकल्पिकेऽप्यसंस्कृता अकृतोपनयनाः सावित्रीपतिता उपनयनभ्रष्टा भवन्ति । व्रात्याश्च संज्ञया । आर्यैः शिष्टैः विगर्हिताः निंदिताः । व्रात्यसंज्ञाव्यवहारप्रसिद्धयर्थोऽयं श्लोकः । अनुपनेयत्वं तु पूर्वेण च सिद्धमुक्तम् “आर्निन्दितः" इति ॥ ३९ ॥ का पुनरेषां निन्देत्याह ।
नैतैरपूतैर्विधिवदापद्यपि हि कर्हिचित् ॥
ब्राह्मान् यौनांश्च सम्बन्धानाचरेद्राह्मणैः सह ॥ ४०॥ एतैर्वात्यैरपूतैरकृतप्रायश्चित्तैर्विधिवद्यादृशो विधिः । प्रायश्चित्ते शास्त्रेणोपदिष्टः तांश्चारयित्वा · श्रीकृच्छ्रानि'त्यापद्यपि हि कहिचित्कस्यांचिदप्यापदि न संबन्धा
१फ-अप्रक्रान्ते।
For Private And Personal Use Only