________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः।
इन्द्रघोष इन्द्ररात इन्द्रविष्णुः इन्द्रदेव इन्द्रज्योतिः इन्द्रयशा इत्यादि कुलभेदेनोपपन्नं भवति ॥ ३४ ॥
चूडाकर्म द्विजातीनां सर्वेषामेव धर्मतः ॥
प्रथमेऽब्दे तृतीये वा कर्तव्यं श्रुतिचोदनात् ॥ ३५ ॥ चूडा शिखा तदर्थ कर्म चूडाकर्म केषुचिन्मूर्द्धदेशेषु केशानां स्थापनं रचना ५ विशेषश्चैतच्चूडाकर्मोच्यते । प्रथमवर्षे तृतीये वा ग्रहसौस्थित्या विकल्पः । श्रुतिनोदनादित्यनुवादस्तन्मूलतयैव प्रामाण्यस्योक्तत्वात् । अथवा श्रुतिशब्देन न विधायकान्येव वाक्यान्युच्यन्ते । किं तर्हि मन्त्राः ते च चूडाकर्मव्यञ्जना इतिवदर्दृष्टं प्रकाशयन्ति यत्सुरेण मार्जयेतेत्यादि तेन समन्त्रकमेतत्कर्मेत्युक्तं भवति विशेषापेक्षायां गार्यो विधिरङ्गीक्रियते। अतः शूद्रस्य नायं संस्कारः द्विजातिग्रहणाच्च । अनियतकालं तु केशवपनं शूद्रस्यार्थप्राप्तं १० न निवार्यते ॥ ३५ ॥
गर्भाष्टमेऽब्दे कुर्वीत ब्राह्मणस्योपनायनम् ।
गर्भादेकादशे राज्ञो गर्भात्तु द्वादशे विशः ॥ ३६ ॥ गर्भस्थस्य यः संवत्सरस्तत आरम्यते योऽष्टमोऽब्दः। गर्भशब्दे साहचर्यात्संवत्सरो लक्ष्यते । न हि मुख्यया वृत्त्या गर्भस्य संवत्सरोऽष्टम इति व्यपदेशं लभते तस्मिन्नौपनायनं १५ ब्राह्मणस्य कुर्वीत । उपनयनमेवौपनायनं स्वार्थिकोऽण् “अन्येषामपि दृश्यते " (व्या. सू. ६।३।१८७) इत्युत्तरपदस्य दीर्घः। छान्दसत्वाद्वोभयपदवृद्धिः। उपनयनमिति हि एष संस्कारो वेदविदां गृह्यस्मृतिषु प्रसिद्धो मौञ्जीबन्धनापरपर्यायः । उपनीयते समीपं प्राप्यते येनाचार्यस्य स्वाध्यायाध्ययनार्थ कुड्यं कटं वा कतु तदुपनयनम् । विशिष्टस्य संस्कारकर्मणो नामधेयमेतत् । गर्भादेकादशे राज्ञः । गर्भात्प्रभृति गर्भाद्वा परो य एकादशोऽब्दस्तत्र २० क्षत्रियस्य कर्तव्यम् । राजशब्दोऽयं क्षत्रियजातिवचनो नाभिषेकादिगुणयोगमपेक्षते ग्रन्थेषु तथा प्रयोगदर्शनात् ब्राह्मणादिजातिशब्दसाहचर्याच्च । गुणविधिषु च क्षत्रियशब्ददर्शनात् 'क्षत्रियस्य तु मौर्वीति' । यस्तु राजशब्दस्य क्षत्रियादन्यत्र जनपदेश्वरे वैश्यादौ प्रयोगः स गौण इति वक्ष्यामः । मुख्ये चासति गौणस्य ग्रहणम् । तथा च गृह्यकारः । “अष्टमे वर्षे ब्राह्मणमुपनयेदेकादशे क्षत्रियं द्वादशे वैश्यमिति" । भगवांश्च पाणिनिः एवमेव २५ प्रतिपन्नो राज्ञः कर्म राज्यं इति राज्यशब्दस्य राजशब्दं प्रति प्रकृतित्वं ब्रुवन्नेव जनपदैश्वर्येण राजशब्दार्थप्रसिद्धिमाह । एवं गर्भात्तु द्वादशेऽब्दे विशः वैश्यस्य ॥ ३१ ॥
. १ क्ष-ड-नोदनात् । २ ते वरूपात् । ३ अदृष्टकाम् । । फ-राज्यशब्दम् ।
For Private And Personal Use Only