________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- मेधातिथिमाष्यसमलंकृता।
[द्वितीयः अथ कोऽयं हेतुर्वाक्यभेदात्समुच्चय इति । ब्रीहिभिर्यजेत यवैर्यजेतेति किं न समुच्चय इति । उच्यते । लिङ्गदर्शनमात्रमेतत्पौरुषेयत्वात् ग्रन्थस्य । विकल्पेऽभिप्रेते मङ्गल्यं शर्मवद्वेति लाघवादवक्ष्यत् । वाक्यभेदे हि द्विराख्यातोच्चारणम् । तद्गुरु भवति ।
रक्षा परिपालनं पुष्टिवृद्धिगुप्तिश्च । गोवृद्धो धनगुप्त इति। प्रेष्यो दासो ब्राह्मणदासो देव५ दासो ब्राह्मणाश्रितो देवताश्रित इति ॥ ३२ ॥
स्त्रीणां सुखोद्यमक्रूरं विस्पष्टार्थे मनोहरम् ।।
मङ्गल्यं दीर्घवर्णान्तमाशीर्वादाभिधानवत् ॥ ३३ ॥
पुंस इत्यधिकृतत्वास्त्रीणामप्राप्तौ नियम्यते । सुखेनोद्यते सुखोद्यं स्त्रीबालैरपि यत्सुखेनोच्चारयितुं शक्यते तत्स्त्रीणां नाम कर्तव्यम् । बाहुल्येन स्त्रीणां स्त्रीभिर्वालैश्च व्यव१० हारस्तेषां च स्वकारणसौष्ठवाभावान्न सर्व संस्कृतं शब्दमुच्चारयितुं शक्तिरस्ति । अतो
विशेषेणोपदिश्यते तत्तु पुंसामसुखोद्यमभ्यनुज्ञायते । उदाहरणं मङ्गलदेवी चारुदती सुवदनेत्यादि । प्रत्युदाहरणं शर्मिष्ठा सुश्लिष्टाङ्गीति । अक्रूरम●रार्थवाचि । क्रूरार्थवाचि क्रूराथै डाकिनी परुषेति । विस्पष्टार्थं यस्यार्थो व्याख्यानगम्यो न भवति श्रुत एव
विदुषामविदुषां वाऽर्थप्रतीतिं करोत्यविस्पष्टार्थ यथा कामनिधा कारीषगन्ध्येति । कामस्य १५ निधेव निधा तया कामस्तत्रैव तिष्ठतीति । एवं यावन्न व्याख्यातं तावन्नावगम्यते ।
एवं कारीषगन्धेर्दुहिता कारीषगन्ध्येति व्याख्यानमपेक्ष्यते । मनोहरं चित्ताह्लादकरं श्रेयसी विपरीतं तु कालाक्षी शर्मवती रुद्रवतीति मङ्गल्यं विपरीतमभागा मंदभागेति । दीर्घो वर्णोऽन्ते यस्य विपरीतं शरत् । आशिष वदतीत्याशीर्वादम् । अभिधानं शब्दः ।
तयोर्विशेषणसमासः। तद्यस्मिन्नस्ति विद्यते तदाशीर्वादाभिधानवत् । सपुत्रा बहुपुत्रा कुलवाहि२० केति । एते ह्या आशीविषया विपरीता अप्रशस्ता अलक्षणेति । अथ मङ्गल्यस्याशीदिस्य च को विशेषः । न कश्चित् । वृत्तपूरणार्थ तु भेदेनोपादानम् ॥ ३३ ॥
चतुर्थे मासि कर्त्तव्यं शिशोर्निष्क्रमणं गृहात ॥
षष्ठेऽनमाशनं मासि यद्वेष्टं मङ्गलं कुले ॥ ३४ ॥
जन्मचतुर्थमासे गृहादहिनिष्क्रमणमादित्यदर्शनं शिशोर्वालस्य कर्तव्यम् । २५ त्रीन्मासान् गर्भगृह एव वासयेत् । शिशुग्रहणं शूद्रस्यापि प्राप्त्यर्थम् । एवं षष्ठे
मास्यप्यन्नप्राशनं पञ्चमासान्क्षीराहार एव । यद्वा कुले दारकस्य श्रेयस्यं मङ्गल्यं पूतना शकुनिकैकवृक्षोपहारादि प्रसिद्धम् । कालविशेषे वा तत्कर्तव्यम् । अयं च संस्कारशेषः तेन नामधेयमुक्तलक्षणव्यतिरेकेणापि यथा कुलधर्म लभ्यते । इन्द्रस्वामी इन्द्रशर्मा इन्द्रभूमिः
१क्ष-ड-अकरार्थम् । १ क्ष-ड-कामस्य निधेव पश्ये च बध्यते । ३ क्ष-ड-केचिन्मास्यम् ।
For Private And Personal Use Only