SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः] मनुस्मृतिः। इत्यादेः प्रतीयते । तद्धिताद्वा हितनिमित्तप्रयोजनार्थीयात् । तत्र गृह्ये तद्धितान्तं प्रतिषिद्धं "कृतं कुर्यान्न तद्धितमिति"समासेऽपि पदद्वयैकार्थीभावस्तत्र बह्वक्षरप्रयोगप्रसंगो यतो वक्ष्यति 'शर्मवद्राह्मणस्येत्युपपदनियमं तत्र चतुरक्षरे व्यक्षरे वा नाम्नि शर्मशब्दे चोपपदे पञ्चाक्षर षडक्षरं नाम भवति तच्च प्रतिषिद्धं द्वयक्षरं चतुरक्षरं वा कुर्यादिति तेन यद्यत्किंचित्प्रायेण सर्वस्याभिलषणीयमगर्हितं पुत्रपशुग्रामकन्याधनादि तद्वचनाः शब्दा नामधेयत्वेन मत्या ५ विनियोक्तव्याः शान्तास्तेन गोशर्मा धनशर्मा हिरण्यशर्मा कल्याणशर्मा मङ्गल्यशर्मेत्यादिशब्दपरिग्रहः सिद्धो भवति । ___ अथवा, मङ्गलं धर्मस्तत्साधनं मङ्गल्यं नाम । कतमत्पुनर्धर्मसाधनं नाम। य एते देवताशब्दाः इन्द्रोऽग्निर्वायुः । तथा ऋषिशब्दाः । वसिष्ठो विश्वामित्रो मेधातिथिस्तेषामपि धर्मसाधनमस्ति । ऋषींस्तर्पयेत्पुण्यकृतो मनसा ध्यायेदिति । “देवतानामृषीणां च १० द्विजानां पुण्यकर्मणाम्।प्रातः प्रबुद्धः श्रीकामो नरो नामानि कीर्तयेद्” इति मङ्गल्यग्रहणाच्च । यदप्रशस्तं यमो मृत्युरित्यादि तन्निरस्थते,यच्चानर्थकं डिस्थादि यदृच्छानिमित्तम्। क्षत्रियस्य बलान्वितम् । बलसंयुक्तं बलवाचि । अन्वयः संबन्धः । शब्दस्यार्थेन संबन्धः प्रतिपादकभाव एव । सामर्थ्य बलं तद्येन येन प्रतिपाद्यते तादृशं नाम क्षत्रियस्य कर्तव्यं शत्रुतपः दुर्योधनः प्रजापाल इत्यादि। विभागेन च नामनिर्देशो। जाति- १५ चिन्हम् । एवं वैश्यस्य धनसंयुक्तम् । न चात्र पर्याया एव गृह्यन्ते “धनं वित्तं स्वापतेयमिति " । किंतर्हि येन प्रकारेण प्रतिपत्तिः यदि वा धनादिशब्दप्रयोगादर्शसंबन्धाद्वा, धनकर्मा महाधनः गोमा धान्यग्रह इति । एवं सर्वत्र द्रष्टव्यम् । तथा चान्वितादिशब्दप्रयोगो बलान्वितं धनसंयुक्तमिति । इतरथा एवमेवावक्ष्यद्वलनामानि कुर्यादिति । स्वल्पत्वाहलार्थवाचिनामानन्त्याञ्च २० पुरुषव्यक्तीनां दुरवधाने भेदे व्यवहारोच्छेद एव स्यात् । शूद्रस्य जुगुप्सितम् । कृपणको दीनः शबरक इत्यादि ॥ ३१॥ शर्मवद्राह्मणस्य स्याद्राज्ञो रक्षासमन्वितम् ॥ वैश्यस्य पुष्टिसंयुक्तं शूद्रस्य प्रेष्यसंयुतम् ॥ ३२ ॥ अत्र स्वरूपग्रहणं पाठानुक्रमश्चादौ मङ्गल्यमेते शर्मशब्दाः । तथा चोदाहृतम् । २५ क्षत्रियादिनाम्नां तु नैतत्संभवति रक्षाशब्दस्य स्त्रीलिङ्गस्य श्रवणात्पुंसां सामानाधिकरण्यानुपपत्तेः । तस्मादेकोपक्रमत्वात्समाचाराच्च सर्वत्रार्थग्रहणं वाक्यभेदाच्च समुच्चयः । यन्मङ्गल्यं तच्छर्मार्थवत् । शरणमाश्रयः सुखं च अर्थग्रहणात्स्वामिदत्तभवभूत्यादिशब्दपरिग्रहः । इन्द्रस्वामीन्द्राश्रयः इन्द्रावतोऽपि तदाश्रयता प्रतीयते । एवं सर्वत्रोन्नेयम् । १ अमरः (१९९०)।२ फ-स्वबलादलार्थवाचिनाम् । ३ फ-स्वल्पत्वाद्बलायर्थवाचिनामानन्त्याच । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy