SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेधातिथिमाष्यसमलंकृता। [द्वितीयः द्रव्यत्वं न ह्यद्रव्यत्वनियतं जातिवत् । य एवाद्रव्यः सोऽपि द्रव्यवान्भवति । चिरमधनो भूत्वा भवत्यह्ना महाधनः । ईदृशस्यैव षण्ढस्य वधे पलालभारकशुद्धिः । स ह्यसंस्कृतोऽनुपनीतः शान्त्यै न कस्यचित्तिष्ठति । अतः स्थितं पुंसामेवैते संस्कारा एभिर्विधीयन्ते । विध्यन्तरेण स्त्रीणाममन्त्रकाः । नपुंसकस्य नैव सन्तीति ॥ २९ ॥ नामधेयं दशम्यां तु द्वादश्यां वाऽस्य कारयेत् ॥ पुण्ये तिथौ मुहूर्ते वा नक्षत्रे वा गुणान्विते ॥ ३०॥ दशम्यां तिथौ द्वादश्यां वाऽस्य दारकस्य नामधेयं कुर्वीत । णिनर्थो न विवक्षितः । तथा च गृह्यम् "दशम्यामुत्थाप्य पिता नाम करोति" इति । नामैव नामधेयम् । येन शब्देन कार्येष्वाहूयते तन्नाम ‘प्रामाभिवर्धनादिति' जातकर्मणः प्रकृतत्वाजन्मनः १०. प्रभृति दशमीद्वादश्यौ गृह्यते न चन्द्रतिथी । इह केचिद्दशमीग्रहणमाशौचनिवृत्तिरित्युपलक्षणार्थ वर्णयन्ति । अतीतायामिति चाध्याहारः दशम्यामतीतायां ब्राह्मणस्य द्वादश्यां क्षत्रियस्य पञ्चदश्यां वैश्यस्येति । तदुक्तं लक्षणायां प्रमाणाभावाज्जातकर्मवदाशौचेऽपि करिष्यते । यदि तु ब्राह्मणभोजनं विहितं क्वचित्तदा युक्ता लक्षणा। यदि दशमीद्वादश्यौ वक्ष्यमाणगुणयुक्त भवतः तदा तयोः १५ कर्तव्यम् । अथ न तदाऽन्यस्मिन्नपि पुण्येऽहनि, पुण्यान्यहानि द्वितीयापञ्चम्यादीनि । पुण्यं प्रशस्तं, नवमीचतुर्दश्यादयो रिक्तास्तिथयः अपुण्याः । मुहूर्तो लग्नं कुंभादि । तस्मिन्पुण्ये पापग्रहैरनधिष्ठिते गुरुभ्यां च दृश्यमाने, लग्नशुद्धिज्योतिषादवगम्यते । नक्षत्रे च गुणयुक्ते । नक्षत्रं श्रविष्ठादि तद्यस्मिन्नहनि गुणयुक्तं भवति । नक्षत्रगुणाश्च क्रूरग्रहपापग्रह विष्टिपातविवर्जितम् । वा शब्दः समुच्चये । तेन प्रशस्तायां तिथौ नक्षत्रे च शुद्धे लग्न इत्युप२० दिष्टं भवति । समुच्चयश्च ज्योतिषाऽवगम्यः । अयं च परमार्थः । दशमीद्वादशीभ्यामर्वात कर्तव्यम् । उत्तरकालं च यदहनक्षत्रं लग्नं परिशुद्धं तदहरेव कर्तव्यम् ॥ ३० ॥ इदानीं यादृशं नाम कर्तव्यं तन्नियमयति स्वरूपतोऽर्थतश्चमङ्गल्यं ब्राह्मणस्य स्यात्क्षत्रियस्य बलान्वितम् ॥ वैश्यस्य धनसंयुक्तं शूद्रस्य तु जुगुप्सितम् ॥ ३१ ॥ तत्र स्वरूपमवधारयिष्यन्नाह । मङ्गलाय हितं तत्र वा साधु माङ्गल्यामिति व्युत्पत्तिः। 'अभिमतस्यार्थस्य चिरजीवित्वबहुधनादेदृष्टादृष्टसुखफलस्य सिद्धि'मङ्गलम् । तदभिधानमेव शब्दस्य हितत्वं साधुत्वं चेति तद्धितसिद्धिः। साधुत्वं नाभिप्रेतार्थसिद्धिप्रतिपादनमेव विव- . क्षितम्। किं तर्हि ? य आशास्यते तद्वचनेनैव सिद्धिः। समासादायुः सिद्धिः धनसिद्धिः पुत्रलाभ १फ-शब्दाभ्यर्हितत्वम् । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy