________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अध्यायः ]
मनुस्मृतिः।
त्यागः । अतः स्थितमिदं सर्वं सर्वासु स्मृतिषु जातकर्माद्युपदिश्यते । तत्र भिन्नार्थमङ्गजातं समुच्चीयते विरुद्धं विकल्प्यते समानार्थे च ।
Acharya Shri Kailassagarsuri Gyanmandir
पुंस इति स्त्रीनपुंसकव्यावृत्त्यर्थम् । अन्ये त्वविवक्षितं पुमर्थं मन्यन्ते । द्विजन्मनामिति सामान्येन त्रैवर्णिकानां संस्कार्यत्वेन प्रकृतत्वात् । संस्कार्यश्च प्रधानमुद्देशो न च प्रधाने लिङ्गसंख्यादिविशेषणं विवक्ष्यते । 'ग्रहं संमाष्टति ' सत्यप्येकवचने सर्वे ग्रहाः संमृज्यन्ते । 'ज्वरितं ज्वरमुक्तं च दिरान्ते भोजयेन्नरम्' इति नार्या अपि ज्वरिताया एष एव भोजनकालः तथा च प्राप्तप्रतिषेधः । स्त्रीणां ' अमन्त्रिका तु कार्या' ' ' इयं स्त्रीणामावृद्' इति ( अ. २ श्लो. ६६ ) । नपुंसकानां च पाणिग्रहणदर्शनं ' यद्यर्थिता तु दारैः स्यात्क्लीवादीनामिति' ( अ. ९ श्लो. २०३ ) तत्रोच्यते । नायं पुंशब्दो मनुष्यजातिवचनो नरशब्दवद्येन विभक्तिवाच्यं लिङ्गं न विवक्ष्येत । एष हि १० सर्वस्वस्थावरमूर्तीमूर्तगतं लिङ्गविशेषं प्रसवरूपमाचष्टे । प्रातिपदिकार्थो ह्यत्र लिङ्गं विभक्तिवाच्यस्य ह्यर्थस्य विवक्षाविवक्षे युज्येते यतो न विभक्तेर्वचनमेवैकं प्रयोजनं कर्माद्यर्थान्तराभिधानेनाप्यर्थवत्त्वात् । इह त्वविवक्षायामानर्थक्यमेव प्राप्नोति पुंस्पदस्य यथा तत्रैव ग्रहप्रातिपदिकार्थो विवक्ष्यते वाक्यानर्थक्यपरिहाराय । अथोच्येत न प्रत्ययार्थमात्रस्य विवक्षा कृत्स्नोऽपि पदार्थ उपदिश्यमानविशेषणं न विवक्ष्यते यथा ' यस्योभयं १५ हविः' इति सत्यप्युभयपदश्रवणे दधिपय सोरन्यतरावृत्तावपि तदेव प्रायश्चित्तं न विवक्षित उभयशब्दः । अत्र केचित्परिहारमाहुः । नैतत्तेन समानं न हि हविरर्थः पञ्चशरावः हविर्विनाशे हि नैमित्तिकोऽधिकारः । इह तु माणवकार्था एव संस्काराः ।
܂
८५.
1
एष त्वप्रयोजको विशेषः । वाक्यभेदभयाद्विशेषणविवक्षा नेष्यते । तादर्थेऽपि वाक्यभेदो नैवापैति । तस्मादयं परिहारः । एतदेवोत्पत्तिवाक्यं जातकर्मणः । वैदिकैः कर्म- २० भिरित्येतदुपक्रमम् । तत्र पुमानेव संस्कार्यतया निर्दिष्टः । तदविवक्षायां वाक्यानर्थक्यं यथा तत्रैव हविः पदं विवक्ष्यते ।
स्त्रीणां त्वप्राप्तेऽपि विधानमुपपद्यते । क्लीनस्यापि दारदर्शनम् । वातरेता यः क्लीन उभयव्यञ्जनोऽप्रवृत्तेन्द्रियो वा । बहुप्रकारव्यावृत्तिकरं जातकर्मादिसंस्कारकालेऽपरिच्छेद्यत्वाच्छक्यप्रतीकारत्वाच्च । न च यो न नियतो धर्मः सोऽधिकारं व्यावर्तयति यथाऽ
-उभयपदविवक्षितमाशंक्येन ।
यद्येवं शूद्रस्यापि प्राप्तिं जातिविशेषानिर्देशात् न प्राप्स्यति मन्त्रसाध्यत्वात् । अथवा द्विजन्मनामिति वाक्यशेषको भविष्यति । न च तदानीं विधेयार्थविषयत्वेन निर्दिष्टे । येन तत एव संस्कार्यायगतौ पुंस इत्येतदुभयपदवदविवक्षितमाशङ्क्येत ।
२५.
For Private And Personal Use Only
५.