SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेघातिथिभाष्यसमलंकृता । [द्वितीयः मिति प्रतीयते । तथा हि प्रत्यभिज्ञासिद्धिः । तदेवेदं तन्नामधेयकं चेदं कर्मातस्तदेवेदमिति, भूयसा दृष्टं तद्गुणयोगेन प्रत्यभिज्ञायते । सति चैकत्वे यदङ्गजातं क्वचिन्नोक्तं तदनिबद्धमन्यत आनेतव्यम् । यथा सर्वशाखाप्रत्ययमेकं कर्म, एवं सर्वस्मृतिप्रत्ययमपि । यत्तु बहुत्वाद्गृह्ये स्मृतीनां काऽऽश्रीयतामित्यनध्यवसायः । सर्वासां प्रामाण्याविशेषादेकार्थानां च विकल्पः भिन्नार्थानां समुच्चयः । चरणसमाख्या तु नैव नियामिका यतो न समाख्यया पुरुषस्य नियतः संबन्धः गोत्रप्रवरवत् । यैव शाखा येनाधीता स एव तथा समाख्यायते 'कठो बढ्च' इति। न चाध्ययने नियमोऽस्त्यनेनेयं शाखाऽध्येतव्येति । अनेकशाखाध्ययनमप्यस्ति वेदानधीत्येति । तत्र त्रिवेदाध्यायिनः सर्वे व्यपदेशाः प्रवर्तन्ते । केऽप्यूचुः कठो बढ्च इति । तत्रावश्यं विकल्प आस्थेयः । एकशाखाध्याय१० नस्तु यद्गृह्यं यया शाखया समाख्यायते तदुक्तमेव तस्य युक्तं कर्तुम् । एष हि तदुक्त मेव शक्नोति कर्तुं तच्छाखामन्त्रा एव तेनाधीताः शक्नोति तान्प्रयोक्तुम् । तमेव वा वृतं वेद । वेदने च कर्मानुष्ठानार्थ वेदाध्ययनं येन तावतो मन्त्रान्कर्मोपयोगिनोऽध्येष्यत इति । उच्यते । स्वाध्यायविधिवशेन वेदाध्ययनम् । अनधीतवेदस्य नाधिकारो न च कर्मप्रयुक्तमध्ययनम् । अत इयं समाख्या मन्त्रविशेषविनियोगनिमित्तैव 'कठानां गृह्यं' 'वाजसनेयिनां गृह्यमिति' । यस्यां शाखायां ये मन्त्रा अधीतास्ते यत्र बाहुल्येन विनियुक्तास्तगृह्य तथा समाख्यायते। प्रमाणं गृह्यस्मृतिः सा कठानामियमिति व्यपदिश्यमाना बढचानामति स्वार्थावगमनं करोत्येव । कर्तव्यता वेदस्य स्वार्थे स्मृतीनां च । अवगतायां च कर्तव्यतायां कर्तृविशेषां श्रवणे स्वाधिकारो न स्याद्यथा च तनूनपाति प्रयाजे । वसिष्ठानां निशेधाद्वा पतितम् । २० न चेह द्वयमप्यस्ति । न च शक्यं कल्पयितुं न हि कठानां बाहच्यं न प्रमाणं, बढचानां वा काठकं यतो य एव कठः स एवाकठोऽसति तच्छाखाध्ययने । गोत्रं तु नियतमित्यसमान एवार्थः । स्वसूत्रं यः परित्यज्य परसूत्रेण वर्तत' इति । यद्येतदस्ति तदेव क तर्हि ? " स्वकं यदधीतं तदर्थः शक्योऽनुष्ठातुम् " । तेन स्वाधीतां शाखामतिक्रम्य पित्राद्यधीत२५ शाखया कर्माणि कुर्यात्तद्गृह्यं च समाश्रयेत् न तस्य शाखात्यागदोषः । पित्रादीनां वा शाखात्यागः यैर्माणवकः क्रमाधीतां शाखां नाध्यापितः । माणवकस्यात्र दोषो नास्ति यदा मृतपितृको जाबालवदयं बालः स्वयमाचार्यमाश्रयेत्तदा । येनास्य पितरो याताः' इत्यनेन शास्त्रेण सैवाध्येतुं युक्ता स्यात् । अथात्मशाखाध्ययनं न संभवति तदा स्वशाखा १५ सना ४क-इ-क्ष-कौठुमः । २ क-ड-फ-क्ष-कर्तृविशेषभावणे । ३ फ-स्यायेन । अग्रे अ. श्लो,१७८ । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy