________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मध्यायः ]
मनुस्मृतिः ।
नित्यः समर्थितो भवति । तस्मान्न नित्यानां किंचित्फलम् काम्यानां स्वन्यदेव फलं न मोक्षः श्रुतत्वात् । तत्र कथमेतत्सर्वकर्मानुष्ठानसाध्यः परः पुरुषार्थ इति ।
अत एव कैश्चिदर्थवादाऽयमिति व्याख्यायते । संस्कारविधिः स्तुत्यर्थः । अत्र च ब्राह्मीयमिति यत्किचिदालम्बनमाश्रित्य गुणवादेन नीयते । ब्रह्म वेदस्तदुच्चारणाह तत्कर्माधिकारिणी च । यत्तर्हि गौतमेनोक्तम् (अ. ८ सू. ८ ) । ' चत्वारिंशत्संस्काराः' इति । तत्कथं तत्र हि सोमसंस्थाऽपि संस्कारत्वेनोक्ता । न च प्रधानकर्मणां संस्कारत्वोपपत्तिः । नाप्येतदर्थवादतया शक्यं व्याख्यातुमविशेषत्वात् । तत्राप्यात्मगुणशेषसंस्कारत्वाध्यारोपेण स्तुतिः । एवमिहापि संस्कारैः संस्कारान् समानीकृत्य तुल्यफलताध्यारोपेण संस्काराणामवश्यकर्तव्यतामाचष्टे । तथा च संस्कार प्रकरणान्नोत्कृष्यते । स्तुतिः क्रियत इति च वर्तमानापदेशः । न विधिविभक्तिः । तत्र कुतो ब्रह्मप्राप्तेः फलत्वावगमः । १० न चात्र कर्माणि विधीयन्ते येनाधिकाराकाङ्क्षायां सत्यपि वर्तमान निर्देशे रात्रिसत्रे प्रतिष्ठावत्फलनिर्देशः स्यात् । तस्मात्संस्कारस्तुत्यर्थमेव सर्वमेतदुच्यते । येऽपि विभागेन वर्णयन्ति नित्यानां ब्रह्मप्राप्तिफलं काम्यानां तु यथाश्रुतमेव तदप्यप्रमाणं सर्वस्यास्यार्थ - वादत्वात् । अन्तरेण च फलं नित्येष्वनुष्ठानसिद्धेः । प्रतिपादितत्वात्तदुक्तं 'कामात्मता न प्रशस्तेति' ( अ. २ श्लो. २ ) ॥ २८ ॥
प्राङ्गाभिवर्धनात्पुंसो जातकर्म विधीयते ॥
मन्त्रवत्प्राशनं चास्य हिरण्यमधुसर्पिषाम् ॥ २९ ॥
६
For Private And Personal Use Only
१५
1
वर्धनं छेदनम् । जातकर्मेति कर्मनामधेयमेतत् । रूपं चास्य गृह्यस्मृतिम्यो ज्ञातव्यम् । कस्य पुनः कर्मणो जातकर्मेति नाम ? तदर्थमुक्तं प्राशनम् । हिरण्यमधुसर्पिषाम् | ' अस्येति ' दारकं व्यपदिशन्ति । कर्म वा अस्य जातकर्मण इदं प्रधानम् । यन्मन्त्र- २० वत्प्राशनमिति । समन्त्रकं मन्त्रेण कर्तव्यमित्यर्थः । मन्त्रस्य चेहानुक्तत्वात् सर्वत्तास्मृतीनां चैकार्थ्याद्यदन्यत्रोक्तं तदत्रापि प्रतीयते तेन गृह्यस्मृतिषु ये मन्त्रा उपायास्तैर्मन्त्रवदिति द्रष्टव्यम् ।
यदि गृह्यस्मृतयोऽपेक्षन्ते द्रष्टव्यनिर्देशोऽपि न कर्तव्यः । एवं हि तत्र पठ्यते । सर्पिर्मधुनी हिरण्यनिकाषं हिरण्येन प्राशयेत् ' प्र ते ददामि मधुनो घृतस्य ' इति । किंच २५ बह्वयो गृह्यस्मृतयो भिन्नाश्च प्रतिगृह्यमन्त्राः, अन्याऽपि भिन्नेोतिकर्तव्यता तत्र काऽऽश्री - यतामिति न विद्मः । अथ चरणसमाख्या नियामिका भविष्यति व्यर्थस्तर्हि जातकर्माचुपदेशस्तत एव सिद्धेः । कठानां गृह्यं बह्वृचामाश्वलायनानां च गृह्यमिति यद्येन समाख्यायते स तदुक्तमनुष्ठास्यतीति । उच्यते । दृष्टादिनिर्देशेन सुस्पष्टं कर्मैकत्व