________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिमाष्यसमलंकृता।
[द्वितीयः इदं तु युक्तं यन्मेध्यमात्रद्रव्यसाध्यौ यागहोमौ । तथा च सति बह्वयश्चोदना यथार्था भवन्ति । यथा सूक्तवाकेन प्रस्तरं प्रहरतीति । तत्र हि प्रस्तरं द्रव्यमाहुर्हरति च यनति । अथ वचनादसौ तादृश एव यागः । दर्भाश्चाप्यदनीयाः केषांचित् । कथं शाकलहोमे । तत्रापि हि ‘शकलान्यम्यादधाति' इत्युत्पत्तिरिति चेद्रहयज्ञे का गतिः । अहेभ्य एकैकस्यै समिधो जुहुयादादीनाम् । अतो यत्र जुहुयादिति देवतासंबन्धश्च काष्ठादेरपि श्रुत उत्पत्तिवाक्ये सोऽपि होम एव ।
इज्यया देवर्षितर्पणेन । एष तावदुपनीतस्य ब्रह्मचर्य क्रियाकलापः । इदानीं गृहस्थधर्माः । सुतैरपत्योत्पत्तिविधिना । महायज्ञैः पञ्चभिर्ब्रह्मयज्ञादिभिः । यज्ञैः श्रौतैयोतिष्टोमादिभिः।
ननु यद्येषां कर्मणां किंचित्प्रयोजनं स्यात्तदा तदधिकारयोग्यतोत्पत्त्यर्था बाह्याः संस्कारा अर्थवन्तः स्युः । अत आह । ब्राह्मीयं क्रियते तनुः । ब्रह्म परमात्मा कारणपुरुषः तस्येयं संबन्धिनी तनुः शरीरम् एतैः श्रौतस्मातः सर्वैः कर्मभिः क्रियते । ब्रह्मसंबन्धिता च तद्भावापत्तिलक्षणा । स हि परः पुरुषार्थः । संबन्धान्तराणि सर्वस्य
कस्यचित्कारणत्वेन सिद्धत्वान्नाभिलषितव्यानि । ततो मोक्षप्राप्तिरुक्ता भवति । ब्राह्मी. १५ त्येनन तनुशब्देन च तदधिष्ठाता पुरुषो लक्ष्यते । तस्य ह्येते शरीरद्वारकाः संस्काराः । तस्यैव च मोक्षप्राप्तिः शरीरस्य पञ्चतापत्तेः ।
अन्ये त्वाहुर्ब्रह्मत्त्वप्राप्तौ योग्या क्रियते। न हि कर्मभिरेव, केवलैब्रह्मत्वप्राप्तिः, प्रज्ञानकर्मसमुच्चयात्किल मोक्षः, एतैस्तु संस्कृत आत्मोपासनास्वधिक्रियते । तथा च श्रुतिः । 'य एतदक्षरं गार्ग्यविदित्वा यजते जुहोति तपस्तप्यते अधीते ददात्यन्तवदेवास्य तद्भवति' इति।
ननु च नैतेषां कर्मणां ब्रह्मप्राप्तिः फलं श्रुतम् । तथा हि नित्यानि तावदश्रुतफलान्येव कल्पनायां च पौरुषेयत्वं यावज्जीवादिपदैश्च नित्यताया अवगनितत्वाद्विश्वजिन्यायोऽपि नास्ति अथास्मादेव वचनादेतत्फलत्वमिति यर्दुच्येत मोक्षार्थिनः तदाऽधिकारः स्यात्तथा च नित्यत्वहानिस्ततश्च श्रुतिविरोधः। निष्फलं न कश्चिदनुतिष्ठति तत्रानर्थक्य- । मिति चेत् कामनानुष्ठानात् ।
. प्रमाणस्य प्रमेयावगतिरर्थः । सा चेत्कृता जातमर्थवत्त्वम्। अस्ति चात्र कर्तव्यतावगतिः । सत्यां च तस्यामकरणे शास्त्रार्थातिक्रमस्ततश्च प्रत्यवाय ईदृश एवार्थे लिङादीनां वृद्धव्यवहारे व्युत्पत्तिः । यो हि भृत्यादिः कर्तव्यं न करोति कस्यचिदाज्ञातुः
स वेतनार्थी वेतनं न लभते । यदि वा प्रत्यवायन योज्यते । तत्र फलस्याश्रुतत्वान्न ४ क- फलानुत्पत्तिः प्रत्यवायः । अपि तु दुःखेन योजनं नित्येषु । एवं सर्वपुरुषाधिकारो
For Private And Personal Use Only