________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
मनुस्मृतिः। विधिश्च । न ह्यत्र श्रुत्यादयः सन्ति । यदाहवनीये जुहोतीत्याहवनीयादयो विनियुक्ताः । अलौकिकत्वाच्च तत्स्वरूपस्याधानविधिनैव सिद्धिः 'वसन्ते ब्राह्मणोऽग्नीनादधीत' इति । अत आहवनीयादिनिर्वृत्तिद्वारेणाधानं ऋतुषूपयुज्यते । न चाङ्गम् । अध्ययनविधिरप्यावबोधद्वारेण ऋतूपकारकः । एवममी संस्काराः । एतत्संकृतस्याध्ययनविधिः निष्पादितोऽध्ययनविध्यर्थस्य विवाहः । कृतविवाहस्याधानम् । आहिताग्नेरधिकार इत्यस्ति ५ संस्कारकार्योपयोगिता बाह्यपुरुषसंस्काराणाम् ।
निषेकग्रहाच्च सर्वत्रापि पितुरधिकारः । तथा च जातकर्मणि मन्त्रः ‘आत्मा वै पुत्रनामासि' इति। तस्य ह्यपत्योत्पादनमपत्यानुशासनं च विहितम् । 'ऋणानि त्रीण्यपाकृत्य' (अ.६।३५) इति । ' तस्मादनुशिष्टं पुत्रं लोक्यमाहुः' इति। अनुशासनं च स्वाधिकारप्रतिपादनम्, तच्च वेदाध्यापनेनार्थावबोधपर्यन्तेन भवतीति वक्ष्यामः । अत एवोभयोपकारकाः १० संस्काराः अपत्योत्पत्तिविधौ पितुर्माणवकस्य च संस्कृतसाध्यासु क्रियासु । तस्मात्पितुरधिकारस्तदभावे तत्स्थानापन्नस्य । तथा चाह 'असंस्कृतास्तु संस्कार्या भ्रातृभिः पूर्वसंस्कृतैः' इति ॥ २७ ॥ येषु कर्मसु माणवकस्य संस्कारा उपकारकास्तानिदानीमुदाहरणमात्रेण दर्शयतिस्वाध्यायेन व्रतहोंमेस्वैविद्येनेज्यया सुतैः ॥
१५ __महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः ॥ २८॥
अध्ययनक्रिया स्वाध्यायशब्देनात्राभिप्रेता । तस्या एष विषयनिर्देशस्त्रैविधेनेति । व्यवधानेऽप्यर्थलक्षणः संबन्धो यस्य येनार्थसंबन्धः' इति न्यायेन । अत एव सामानाधिकरण्येऽपि श्रुते' विषयविषयिभावो विभक्तिविपरिणामेन । त्रयाणां वेदानामध्ययनेनेत्यर्थः । त्रय एव वेदाः । विद्यं चातुर्वर्या दिवद्रूपासिद्धिः । अथवा ' स्वाध्यायेनेति' वेदाध्ययनं २० 'विद्येनेति ' तदर्थावबोधः । व्रतैः सावित्रादिभिर्ब्रह्मचारीकर्तृकैः । होमैत्रतादेशनकाले ये क्रियन्ते । यदि वा सायंप्रातः समिद्भिरग्नीन्धनं ब्रह्मचारिणो होमशब्देनाग्याधारसंबन्धसामान्यादुच्यते । अथ किं समिदाधानं न होमो येनैवमुच्यते संबन्धसामान्यादिति न भवतीति ब्रुवन्ति अदनीयद्रव्यसाध्यत्वाद्यागहोमयोः ।
कथं तर्हि " सायं प्रातश्च जुहुयात्ताभिरग्निमतंद्रितः" इत्युक्तम् । लक्षणया समि- २५ दाधानं होमशब्देनोच्यते । यथैव हूयमानं द्रव्यमग्नौ प्रक्षिप्यते एवं समिन्धनार्थाः समिधोऽपि अत एतेन सामान्येन समिन्धनमेव होम इत्युच्यते । उत्पत्तिवाक्ये हि समिधमादध्याद्' इति श्रुतम् । जुहुयात्ताभिरग्निमित्यनुवादोऽयमन्यार्थ इति परस्तावक्ष्यामः । न चानुवादे लक्षणादोषः ।
१ क-उ-क्ष-श्रुतेविषय ।
For Private And Personal Use Only