________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिमाष्यसमलंकृता।
[द्वितीयः इति । बीजे भवं बीजनिमित्तं वा बैनिकम् । एवं गार्मिकम् । एनः पापमदृष्टं दुःखकारणम् । तस्य बीजगर्भयोर्निमित्तभावादशुचित्वमात्रमिहोच्यते। शुक्रशोणिते पुरुषस्य बीजम् । ते च स्वभावादशुचिनी । गर्भाधान्यपि दोषसंक्रान्त्या दुष्दैव । अतस्तन्निमित्तमशुचित्वं पुरुषस्य
संस्कारैरपमृज्यतेऽपनुद्यते । तानीदानी कांश्चिन्नामधेयेन, कांश्चित्संस्काविशेषोपलक्षितान् __ कृत्वा निर्दिशति।गाभैोमैः। गर्भे संभूते नार्याः क्रियन्ते । गर्भ वा ग्रहीतुम् गर्भप्रयोजनक
त्वाद्गार्माः । नारी तत्र द्वारमात्रम् । प्रयोजकस्तु गर्भ एव । अतस्तत्प्रयुक्तत्वाच्च तदर्था होमाः पुंसवनसीमन्तोन्नयनगर्भाधानानि । होमशब्द उपलक्षणार्थः कर्ममात्रस्य । न हि गर्भाधानं होमः । एतेषां च कर्मणां द्रव्यदेवतादिरूपं गृह्यस्मृतिभ्योऽवसातव्यम् । यथैव गाभैहोमैरेवं जातकर्माख्येन संस्कारेण । एवं चौडेन । चूडार्थः चौडः । मौञ्जीनिबन्धनमुपनयनम् । तत्र हि मुञ्जविकारो मेखला बध्यते। अतस्तेनोपनयनकर्मोपलक्ष्यते ।बन्धनमेव निबन्धनम् । निः वृत्तपूरणः । जातकर्मादीनि संस्कारनामधेयानि कृतद्वन्द्वानि करणविभक्त्या एनोपमार्जनस्य निर्दिश्यन्ते।
___ संस्कारश्च सर्वः संस्कार्ये कार्यान्तरशेषभूते कृतार्थे करिष्यमाणार्थे वा कंचिदृष्टमदृष्टं वा विशेषमादधाति 'बीहीनवहन्तीति' 'व्रीहिभिर्यजेते'ति यागं निवर्तयिष्यतां तुषकणविप्र१५ मोक्षो दृष्टो विशेष आदधाति । 'शिरसोऽवतार्य स्रजं शुचौ देशे निदधातीति' उपभु
ताया आकीर्णाकारायाः प्रतिपत्तिनियमाददृष्टः स्रजो विशेषस्तोमे संस्काराः शरीरशुद्धयर्थाः श्रुताः । न च गन्धाद्यपकर्षणं मृद्वारिसंबन्धादिव शरीरे दृश्यते । तेनेयं जन्मादिकालशुद्धिवददृष्टविशेषा शुद्धिर्वेदितव्या । एतया च शुद्धया पूतः श्रौतस्मार्तेषु कर्मस्वधिक्रि
यते। यथा मन्त्रपूतमाज्यं होमे।लौकिकेतु कार्ये द्रव्यशुद्धचैव शुद्धिर्यथाऽऽज्यस्य भोजनादौ । २० स्पृश्यता हि कुमारस्य 'अद्भिगात्राणि शुध्यन्ती'त्येतावतैव भवति । तथा चाह । 'न तदुपस्पर्शनादशौचमिति'।
____ कथं पुनः कर्मार्थत्वमेतेषाम् । युक्तमुत्पवनाज्यद्वारकं प्रकरणेन विनियोगात् । अमी तु बाह्या न कस्यचित्कर्मणः प्रकरणे श्रुताः । अतः पुरुषद्वारिका कर्मार्थता दुर्भणा ।
न चासति कार्योपयोगे स्वरूपतः संस्कार एव निवर्त्यः । तथाऽसति संस्कारतैव हीयेत २५ प्रधानकर्मता स्यात् । अतश्च कार्यः शरीरसंस्कार इति । 'कुमारे जाते पुराऽन्यैरालम्भा
दिति' च द्वितीया श्रुतिर्बाध्येत । ‘शत्रू होतीति'वद्विनियोगभङ्गः स्यात् । तत्र चाधिकारकल्पनेत्यादिबहसमंजसं प्राप्नोति । उच्यते।न वयं श्रुत्यादिप्रामाण्यापेक्ष्यं तादर्थ्यमङ्गलक्षणं ब्रूमः।अपि तूपकारकत्वं तच्चानङ्गत्वेऽप्युपपद्यते । यथाऽऽधानविधिः स्वाध्यायाध्ययन विधिश्च
फ-अ-क-ख-ठ-क्ष-आय । २ अ-क-द-फ-क्ष-श्रुत्याप्रामाण्यापेक्ष्यं तादर्थ्य मंगललक्षणम् ।
For Private And Personal Use Only